________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. १० का.
ग्टह्यसूत्रम् ।
तैष्या अर्द्धमष्टम्यां गौः ॥ १८॥ तैषी पौषीपौर्णमामी। तस्या ऊई-तस्याः परस्यामष्टम्यां गौरालब्धव्या, इति सूत्रशेषः ॥०॥ १८ ॥०॥ कथमालब्धव्या ?। उच्यते,
ता सन्धिवेलासमीपं पुरस्तादग्नेरवस्थाप्योपस्थितायां जुहुयात्-यत्पशवः प्रध्यायतेति ॥ १६ ॥ राञ्चहोः सन्धिरेव मन्धिवेला । सा चार्थात् पूर्वैव बोद्धव्या, न पश्चिमा। उषैव मन्धिवेलाशब्दार्थः, इति केचित् । तस्याः मन्धिवेलायाः समोपं-(“कालावनारत्यन्तमयोगे"-दूति दितोया) मन्निधावित्यर्थः । पुरस्तात् पूर्वस्यां दिश्य नेः, तां गां अवस्थाप्य प्रत्यमखों स्थापयित्वा, उपस्थितायामागतायां सन्धिवेलायां, यत् पशवः, इत्यनेन मन्त्रेण जुहुयात् । द्रव्यानुपदेशादाज्येन। स्रवेण चायं होमः स्यात्। एतदनं भवति । मन्धिवेलाया अल्पत्वात् तदानों होतुं तस्याः समीपमेवाग्नेः पूर्वतो गामवस्थापयति, तत आगतायां मन्धिवेलायां जुहोति, इति । नन, उपस्थितायां गवि जुहुयात्,-दूत्ययमेव सम्बन्धः कस्मा न वर्ण्यते ?। विरोधादि त्याह । कथं नाम ?। यदि नामापस्थितायामेव गवि हयते, न तहमेः पुरस्तात्तामवस्थाप्य जुहोति । अथानेः पुरस्तात्तामवस्थाप्य जुहोति, व्यतं तर्हि तस्यामुपस्थितायामेव न जुहोति-अपि तु अग्नेः पुरस्तादवस्थापितायामिति । अथापि स्यात्, नेयमुपस्थितिरवस्थानाभिद्यते । यत् खल्वव
For Private and Personal Use Only