________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
गाभिलीयं
[९ प्र. १० का.]
मतिक्रम्य मध्यमायामेव तदुपदेशात् । दूतरयो:व्यान्तरोपदेशाच्च । एवमेतस्मिन् पक्षे अन्वष्टक्यमपि मध्यमायामेव भवति । कस्मात् कारणात् ? । तस्याष्टकामंज्ञपितपशुसाध्यत्वात् । भध्यमाष्टकायामेव च पमंज्ञपनोपदेशात् । तथाच वक्ष्यति,-"वामं सक्थ्यन्वष्टक्याय निदध्यात्" इति । तथा चोक्तम् ।
"अन्वष्टक्यं मध्यमायामिति गोभिलगौतमी। वार्कखण्डिश्च, सर्वासु कौत्सो मेनेऽष्टकासु च"।
इति । वचनस्य खल्वेतस्थोकन्यायमूलतया व्यष्टकपक्ष एव गोभिलाचार्यस्थानमतः, इति, भङ्ग्यन्तरेण कात्यायनः स्पष्टयाञ्चकार । कौत्मस्य पुनराचार्य्यस्य मते मामामेवाष्टकानां समांमत्वात् मात्रैवान्वष्टक्यं सम्भवति,-इति द्रष्टव्यम्। तस्मादाचार्येण चतुर्थी अटकायाः कर्मासूत्रणात अटकपक्ष एवादरणीयः। चतुरटकपक्षस्तु कौत्सानुमतोऽपि बहुभि विरोधादुपरोद्ध व्यः। अथाच वाक्यार्थविद्भिरभिहितम् ।
"अल्पानां यो विघातः स्यात् म वाधो बहुभिः स्मतः । प्राणमम्मित इत्यादि वाशिष्ठं वाधितं यथा । विरोधी यत्र वाक्या नां प्रामाण्यं तत्र भूयसाम् । तुल्यप्रमाणसत्त्वे तु न्याय एव प्रवर्तकः ।
इति ॥०॥ ८ ॥०॥ अथेदानी तिस्रोऽष्टकाः कमेणोपदेष्टुमाह,
For Private and Personal Use Only