________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य स्वधर्मः विगुणोपि सर्वाङ्गोपसंहारमन्तरेण कृतोपि परधर्मात स्वं प्रत्यविहितान् स्वनुष्टितान् सर्वाङ्गोपसंहारेण सम्पादितादपि न | हिदातिरिक्तमान गम्योधर्मः येन परधर्मो यनुष्ठेयः धर्मत्वान् स्वधर्मवदित्यनुमानं तत्र मानं स्यात् 'चोदनालक्षणोर्योधर्मइति' न्यायात् अतः स्वधर्मे किञ्चिदङ्गहीनेपि स्थितस्य निधनं मरणभपि श्रेयः प्रशस्यतरं परधमस्य जीवितादपि स्वधर्मस्थस्य निधनं हि इह लोके | | कीर्त्यावह परलोके च स्वर्गादिसापक परधर्मस्तु इहाकी किरत्वेन परत्र नरकपदत्वेन च भयावहोयतः अतोरागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्माप हेयावेत्यर्थः एवं तावद्भगवन्मनाङ्गीकारिणां श्रेयःप्रापिस्तदनहीकारिणां च श्रेयोमार्यभ्रटत्वमुक्तं श्रेयोमार्यभ्रंशेन फलाभिसन्धिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये वेतदभ्यतयन्तइत्यादिना तत्रायं संग्रह लोकः श्रद्धाहानिस्तथाऽतूया दुष्टचित्तत्वमूढते प्रकृतेर्वशतित्व रागद्वेषौ च पुष्कलौ परधर्मरवित्वं चेत्युक्तादुर्मार्गवाहकाः // 35 // तत्र श्रेयान्वयौविगुणः परधर्मात्स्वनुष्ठितात् // स्वधर्मे निधनं श्रेयः परधर्मोभयावहः // 35 // अर्जुन उवाच // अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः // अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः // 36 // काम्यातिविद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्कारणावधारणाय ध्यायतोविषयान्सइत्यादिना पूर्वमनर्थमूलमुक्तं // साम्पतं च प्रकृतेर्गुणसंमदाइत्यादिना बहुविस्तरं कथितं तत्र किं सर्वाण्यपि समप्राधान्यन कारणानि अथवैकमेव मुख्य कारणाभितरााण तु तत्सहकारीणि केवलं तत्राद्ये सर्वेषां पृथक्पृथशिवारणे महान्प्रयासः स्यात् अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतोवहि मे केन हेतुना प्रयुक्तः प्रेरितोयं त्वन्मताननुवर्ती सर्वज्ञानविमूढः पुरुषः पापमनर्थानुबन्धि सर्वं फलाभिसन्धिपुरः सरं काम्यं चित्रादि शत्रुवधसाधनं च श्येनादि प्रतिषिद्धं च कलजभक्षणादि बहुविध कर्माचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्ति |लक्षणं परमपुरुषार्यानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति न च पारतन्त्र्यं विनत्त्यं संभवति अतोयेन बलादिव नियोजितोराज्ञेव भत्यस्त्वन्मतविरुद्धं सर्वाना नुबन्धित्वं जाननपि तादृशं कर्माचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदावेत्यर्य: हेवाष्र्णेय वृष्णिवंशे / For Private and Personal Use Only