________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.३. नन् सर्वस्यपाणिवर्गस्य प्रकृतिवशवर्तिले लौकिकबदिकपुरुषकारविषयाभावाविधिनिषेधानर्थक्यं प्राप्नं न च प्रकृति शून्यः कविदस्ति यं प्रति तदर्थवत्वं स्यादित्यतआह' इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषामिन्द्रियाणामर्थे विषये शद्वे स्पर्श रूपे | रसे गन्धे च एवं कर्मेन्द्रियविषयेपि वचनादौ अनुकूले शास्त्रनिषिद्धेपि रागः प्रतिकूले शास्त्रविहितेपि द्वेषइत्येवं प्रतीन्द्रियार्थ | रागद्वषो व्यवस्थितावानुकूल्यपातिकृल्यव्यवस्थया स्थिती नवनियमेन सर्वत्र तौ भवतः तत्र पुरुषकारस्य शास्त्रस्य चायं विषयोयत्तयोर्वशं नागच्छेदिति कथं या हि पुरुषस्य प्रकृतिः साबलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्वनिषिद्धे कलजभक्षणादौ प्रवर्तयति तथा बलवदिष्टसाधनत्वज्ञानाभावसहकृतानिष्टसाधनत्वज्ञानानेबन्धनं द्वेषं पुरस्कृत्यैव शास्त्रविहि| तादपि सन्ध्यावन्दनानिवर्तयति तत्र शास्त्रेण प्रतिषिद्धस्य बलवदनिष्टानुवन्धित्वे ज्ञापिते सहकार्यभावात्केवलं दृष्टेष्टसाधनताज्ञानं मधुविषसंपृक्तानभोजनइव तत्र न रागं जनायितुं शक्नोति एवं विहितस्य शास्त्रेण बलवदिष्टानुबन्धित्वे बोधिते सहकार्यभावारकेवलमनिष्टसाधनत्व ररररररररररररररर / इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ॥तयोर्न वशमागच्छेत्तौ यस्य परिपन्थिनौ // 34 // 2515525028525152515251525152525 ज्ञानं भोजनादाविव तत्र न द्वेषं जनयितुं शक्रोति ततश्चाप्रतिबद्धं शास्त्र विहित पुरुष प्रवर्तयति निषिद्धाच निवर्नयतीति शास्त्रीयविवेक. विज्ञानप्राबल्येन स्वाभाविकरागद्वेषयोः कारणोपमर्दैनोपमर्दान्न प्रकृतिविपरीतमार्गे पुरुषं शास्त्रदृर्टि प्रवनयितुं शक्नोतीति न शास्त्रस्य पुरुपकारस्य च वेयर्थ्यप्रसङ्गः तयोरागद्वेषयर्विशं नागच्छेत्तदधीनोन प्रवर्तेत निवर्तेत वा किंतु शास्त्रीयतद्विपक्षज्ञानेन तत्कारणविघटन द्वारा नौ नाशयेत् हि यस्मात् तौ रागद्वेषौ स्वाभाविकदोषप्रयुक्तौ अस्य पुरुषस्य श्रेयोथिनः परि पन्थिनी शत्रू श्रेयोमार्गस्य विन| कर्तारौ दस्यूहव पथिकस्य इदं च 'येहप्राजापत्यादेवाश्चातुराश्च ततः कानीयसाएव देवाज्यायसाअसुरास्तएषु लोकेवस्पर्धन्तेत्यादिश्रुनौ' स्वाभाविकरागद्वेषानिमित्तशास्त्रविपरीतप्रवृत्तिमसुरत्वेन शास्त्रीयप्रवृत्तिं च देवत्वेन निरूप्य व्याख्या| तमतिविस्तरेणेत्युपरम्यते // 34 // ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वासाधारणप्रतिपहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेताह यत्सुकर भिक्षाशनादि तदेव क्रियतां किमनिदुःखाबहेन युद्धनेत्यताह श्रेयान् प्रशस्यतरः स्वधर्मः यं वर्णमाम प्रति योविहितः स. || // 15 // For Private and Personal Use Only