________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir फलाभिसन्धिराहित्येन भगवदर्पणबुड्या विहितकनुष्टानं सत्त्वशुद्धिज्ञानप्रापिद्वारेण मुक्तिफलमित्याह इदं फलाभिसन्धिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरंपरागतं आवश्यकामिति वा सर्वदेति वा मानवाः मनुष्याये केचित् | मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तः शाखाचार्योपदिष्टेर्थेऽननुभूतेप्येवमेवैतदिति विश्वासः श्रद्धा तद्वन्तः अनसूयन्तः गुणेषु दोषाविष्करण मस्या सा च दुःखात्मके कर्मणि मां प्रवर्तयन्न कारुणिकोयमित्येवंरूपा प्रकृते प्रसक्तां तामसूयामपि गुरौ सर्वसुत्दयकुर्वन्तोयेऽनुतिष्ठन्ति तेपि सत्त्वशुद्धिज्ञानपानिद्वारेण सम्यक् ज्ञानिवन्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैः // 31 // एवमन्वये गुणमुक्त्वा व्यातरेके दोषमाह तु शब्दः श्रद्धाधर्म्यमश्रद्धां सूचयति तेन ये नास्तिक्यादश्रद्दधानाअभ्यस्यन्लोदोषमुद्भावयन्तः एतन्मम मतं नानुवर्तन्ते तानचेतसोदुष्टचित्तान् अतएव सर्वज्ञानविमूढान् सर्वत्र कर्मणि ब्रह्मणि सगुणे निर्गुणे च यज्ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतव मूढान् सर्वप्रका| ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः // श्रद्धावन्तोऽन लूयन्तोसुच्यन्ते तेपि कर्मभिः | // 31 // ये त्वेतदभ्यसूयन्तोनानुतिष्ठन्ति मे मतम् ॥सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेत | सः // 32 // सदृशं चेष्टते स्वस्याः प्रकतेानवानपि॥ प्रकृति यान्ति भूतानि निग्रहः किं कः | रिष्यति // 33 // रेगायोग्यानष्टान सर्वपुरुषार्थभ्रष्टान्विद्धि जानीहि // 32 // ननु राज्ञइव तव शासनातिक्रमे भयं पश्यन्तः कथमसूयन्तस्तव मतं नानुवर्तन्ने कयं वा सर्वपुरुषार्थसाधने प्रतिकूलाभवन्तीत्यतआह प्रकृति म प्राग्जन्मकृतधर्माधर्मज्ञानेच्छादिसंस्कारोवर्तमानजन्मन्यभिव्यक्तः सर्वतोबलवान् तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञाचेति श्रुतिप्रमाणकः तस्याः स्वकीयायाः प्रकृतेः सदृशमनुरूपमेव सर्वोजन्तुर्ज्ञानवान् ब्रह्मविदपि ‘पश्चादिभिधाविशेषादितिन्यायात् / गुणदोषज्ञानवान्वा चेष्टते किं पुनर्मर्खः तस्मात् भूतानि सर्वे प्राणिनः प्रकृति यान्त्यनुवर्तन्ते पुरुषार्थभ्रंशहेतुभुतामपि तत्र मम वा राज्ञोवा निग्रहः किं करिष्यति रागौत्कट्येन दुरितान्निवर्तयितुं न शक्नोतीत्यर्थः महानर कसाधनवं ज्ञात्वापि दुर्वासनाप्राबल्यात्पापेषु प्रवर्तमानान मच्छासनातिक्रमदापाद्विभ्यतीति भावः // 33 // For Private and Personal Use Only