SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्या सेवयेत् अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्मसु श्रद्धानिवृत्तानस्य चानुत्पत्तेरुभयभ्रटवं स्यात् | | तथा चोक्तं 'अज्ञस्यार्धप्रबुद्धस्य सर्व ब्रह्मेति योवदेत् महानिरयजालेषु सतेन विनियोजितइतिः // 26 // विइदविदुषोः कर्मानुष्ठानसाम्यपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन्सक्ताः कर्मणीति श्लोकार्थं विवृणोति द्वाभ्यां प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिः 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरमिति' श्रुतेः तस्याः प्रकृतेर्गुणैर्विकारः कार्यकारणरूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्वप्रकारैः अहङ्कारेण कार्यकारणसङ्घातात्मप्रत्ययेन विमूढः स्वरूपविवेकासमर्थआत्मान्तःकरणं यस्य सोहङ्कारविमढात्मा अनात्मन्यात्माभिमानी तानि कर्माणि कर्ताहामति करोम्यहमिति मन्यते कर्बध्यासेन कर्ताहमिति दृन्प्रत्ययः तेन न लोकाव्ययनिष्ठाखलर्थतॄनामिति षष्टीप्रतिषेधः // 27 // विद्वांस्तु तथा न मन्यतप्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः // अहङ्कारविमूढात्मा कर्ताहमिति मन्यते // 27 // तत्त्ववितु महावाहो गुणकर्मविभागयोः // गुणागुणेषु वर्तन्तइति मत्वा न सज्जते // 28 // | इत्याह तत्त्वं याथात्म्य घेत्तीति नत्त्ववित् तुशब्देन तस्याज्ञादेशिष्ट्यमाह कस्य तत्त्वमित्यतआह गुणकर्मविभागयोः गुणादेहेन्द्रियान्तःकरणान्यहङ्कारास्पदानि कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानीति गुणकर्मेति इन्दैकवद्भावः विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग्भवतीति विभागः स्वप्रकाशज्ञानरूपोसङ्गआत्मा गुणकर्म च विभागधेति इन्द्रः तयोर्गुणकर्मविभागयो र्भास्यभासकयोर्जडचैतन्ययोर्विकारिनिर्विकारयोस्तत्वं याथात्म्यं योवेत्ति सगुणाः करणात्मकागुणेषु विषयेषु प्रवर्तन्ते विकारित्वात् न तु निर्विकारआत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशमतत्त्वविदिव न करोति हेमहाबाहो इतिसंबोधयन्सामुद्रिकोक्तसत्पुरुषलक्षणयोगित्वान्न पृथग्जनसाधारण्येन त्वमविवेकी भवितुमर्हसीति सूचयति गुणविभागस्य कर्मविभागस्य च तत्त्वविदिति वा अस्मिन्पक्षे गुणकर्मणोरित्येतावतैव निर्वाहे विभागपदस्य प्रयोजनं चिन्त्यम् // 28 // तदेवं विद्वदविदुषोः कर्मानुष्टानसाम्येन विद्वानविदुषोबुद्धिभेदं न For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy