SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मैण प्रसविष्यध्वं प्रसूयध्वं प्रसवोवृद्धिः उत्तरोत्तरामाभवाई लभध्वमित्यर्थः कथमनेन वृद्धिः स्यादतआह एषयज्ञाख्योधर्मः वोयुष्माकं इष्टकामधुक् इष्टानभिमतान् कामान् काम्यानि फलानि दोधि प्रापयतीति तथा अभीष्टभोगप्रदोस्वित्यर्थः अत्र यद्यपि यज्ञयहणमावश्यककर्मोपलक्षणार्थं अकरणे प्रत्यवायस्यारे कथनात् काम्यकर्मणां च प्रकृते प्रस्तावोनास्त्येव मा कर्मफलहेतु रित्यनेन निराकृतत्वान् तथापि नित्यकर्मणामप्यानुषङ्गिकफलसद्भावादेषवोस्त्विष्टकामधुगित्युपपद्यते तयाचापस्तम्बःस्मरति नयथा आने फलार्थे निमित्ते निर्मिते) छायागन्धइत्यनुत्पद्यते एवं धर्मं चर्यमाणमर्थाअनुत्पद्यन्ते नोचेदनूत्पद्यन्ते न धर्महानिर्भवतीति' फलसद्भावेपि तदभिसन्ध्यनभिसन्धिभ्यां काम्यनित्ययोर्विशेषः अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः विस्तरेण घाग्रे प्रतिपादयिष्यते // 10 // कथामिष्टकामदोग्धृत्वं यज्ञस्यति तदाह अनेन सहयज्ञाः प्रजाः सृष्टा पुरोवाच प्रजापतिः // अनेन प्रसविष्यध्वमेवोस्त्विष्टकामधुक् // 10 // देवान्नावयतानेन ते देवाभावयन्तु वः॥ परस्परं भावयन्तः श्रेयः परमवाप्स्यथ // 11 // इष्टान्भोगान्हि वोदेवादास्यन्ते यज्ञभाविताः॥ तैर्दत्तानप्रदायेभ्योयोभुङ्क्ते स्तेन एव सः॥१२॥ Ketkhtt68525A RATHEE / यज्ञेन यूयं यजमानादेवानिन्द्रादीन् भावयत हविभागैः संवर्धयत तर्पयतेत्यर्थः ते देवायुम्माभिर्भाविताः सन्तोषोयुष्मान् भावयन्तु वृट्यादिना अनोत्पत्तिबारेण संवर्धयन्तु एवमन्योन्यं संवर्धयन्तोदेवाश्च यूयं च परं श्रेयोभिमतमर्थ प्राप्स्यय देवास्तप्ति प्राप्स्यन्ति यूयं |च स्वर्गाख्यं परं श्रेयः प्रास्यथेत्यर्थः // 11 // न केवलं पारत्रिकमेव फल यज्ञात् किन्वैहिकमपीत्याह अभिलषितान् भोगान् पश्वन्नहिरण्यादीन् वोयुष्मभ्यं देवादास्यन्ते वितरिष्यान्त हि यस्मान् यज्ञैर्भावितास्तोपितास्ते यस्मात्तैर्ऋणवद्भवद्भयोदत्ताभोगास्तस्मात्तैर्देवै| दत्तान्भोगानेभ्योदेवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य योभुङ्क्ते देहेन्द्रियाण्येव तर्पयति स्तेनएव तस्करएव सः देवस्वापहारी देव नपाकरणात // 12 // यः // 11 // न केवल यन्तोदेवाश्च यूयं च प ने देवायुप्माभिर्भाव For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy