________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ग: म. 5 1525152585252525 पहा पूर्वस्माझ्यातिरेकार्थः वशीक़तान्तःकरणस्तु आत्मवश्यैर्मनोधीनः स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तविरहिनैरिन्द्रयैः श्रोत्रादिभिर्वहषयान् शद्वादीननिषिद्धान् चरनुपलभमानः प्रसादं प्रसन्नतां चित्तस्य स्वच्छतां परमात्मसाक्षात्कारयोग्यतामधिगच्छति रागद्वेषप्रयु तानि इन्द्रियाणि दोषहेतुतां पातेपद्यन्ते मनसि स्वबशे तु न रागद्वेषो तयोरभावे च न तदधीनेन्द्रियप्रवृत्तिः अवर्जनीयतया तु विषयोपलम्भोन दोषमावहतीति न शुद्धिव्याघातइति भावः एतेन विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगः तेन जीवनाथ विषयान् भुजानः कथमनर्थं न प्रतिपद्येतेति शहा निरस्ता स्वाधीनैरिन्द्रियौवषयान्प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरमुक्तं भवति // 64 ॥प्र. |सादमाधिगच्छतीत्युतं तत्र प्रसादे सति किंस्यादित्युच्यते चित्तस्य प्रसादे स्वच्छत्वरूपे सति सर्वदुःखानामाध्यात्मिकादीनामज्ञानवि रागद्वेपवियुक्तैस्तु विषयानिन्द्रियैश्चरन् // आत्मवश्यविधेयात्मा प्रसादमधिगच्छति // 64 // प्रसाड़े सर्वदुःखानां हानिरस्योपजायते // प्रसन्नचेतसोह्याशु वुद्धिः पर्यवतिष्ठते // 65 // नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना // नचाभावयतः शान्तिरशान्तस्य कुतः सुखम् / 66 / / |लासतानां हानिर्विनाशोऽस्ययतेरुपजायते हि यस्मात् प्रसन्नचेतसोयतेराश शीघ्रमेव बुद्धिर्ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परिसमन्तादवतिष्टते स्थिरा भवति विपरीतभावनादिप्रतिबन्धाभावात् ततश्च प्रसादे सति बुद्धिपर्यवस्थानं ततस्तद्विरोध्यज्ञाननिवृत्तिः ततस्तत्कार्यसकलदुःखहानिरिति क्रमेपि प्रसादे यलाधिक्याय सर्वदुःखहानिकरत्वकथनमिति न विरोधः // 65 // इममेवाथ व्यतिरेकमुखेन द्रढयति अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्य नास्ति नोत्पद्यते तद्बुद्ध्यभोव न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा सर्वत्र नमोऽस्तीत्यनेनान्वयः नचाभावयतआत्मानं शान्तिः सकार्याविद्यानिवृत्तिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्दइत्यर्थः // 66 // || // 3 // 25152 For Private and Personal Use Only