________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अ. दुःखान्तरकारणत्वात्सो पिप्रारब्धकर्मान्तरेण प्राप्यतामिति चेत् न स्थितप्रजस्य भ्रमोपादानाज्ञानवाशेन भ्रमासम्भवात्तज्जन्यदुःखपापकपारग्धाभावात् यथा कथंचिदेहयात्रामात्रनिर्वाहकवारब्धकर्मफलस्य भ्रमाभावेपि बाधितानुवत्योपपत्तेरिति विस्तरेणाये वक्ष्यते तथा मुखेषु सत्त्वपरिणामरूपपीत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्रापितेषु विगतस्पृहः आगामितज्जातीयसुखस्पृहारहितः स्पृहाहि नाम सु| खानुभावकाले तज्जातीयमुखस्य कारण धर्ममननुष्टाय वृथैव तदाकावारूपा तामसी चित्तवृत्तिर्धान्तिरेव साचाविवेकिन एव जायते न हि कारणाभावे कार्य भवितुमर्हति अतोयथा सति कारणे कार्य माभूदिति वृथाकाङ्क्षारूपउद्धगोविवेकिनोन संभवति तथैवासति कारणे कार्य भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्धकर्मणः सुखमात्रप्रापकत्वात् हर्षात्मिका वा चित्तवृत्तिः स्वहाशद्वेनोक्ता | सापि भ्रान्तिरेव अहो धन्याहं यस्य ममेदृशं सुखमुपस्थितं कोवा मया तुल्यस्त्रिभुबने केन वोपायेन ममेवृशं सुर्ख नविच्छियेतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिः अतएवोक्तं भाष्ये नागिरिवेन्धनाद्याधाने यः सुखान्यनुविवर्धते सविगतस्पृहइति वक्ष्यति 总经总经的的的的的的的的的的的的合 दुःखेष्वनुद्विग्नमनाः सुरखेषु विगतस्पृहः // वीतरागभयकोषः स्थितधीर्मुनिरुच्यते // 56 // 2151585251525152519525152515654505 चन प्रत्दृष्येत् प्रियं प्राप्य नोदिजेत्प्राप्य चाप्रियमिति सापि न विवकिनः संभवति भ्रान्तित्वात् तथा वीतरागभयक्रोधः रागः शोभनाध्यासनिबन्धनोविषयेषु रञ्जनात्मकश्चित्तवत्तिविशेषोत्पन्नाभिनिवेशरूपः रागविषयस्य नाशके समुपस्थिते तनिवारणासामर्थ्यमात्मनामन्यमानस्य दैन्यात्मकचित्तवृत्तिविशेषोभयं एवं रागविषयविनाशके समुपस्थिते तनिवारणसामर्थ्यमात्मनोमन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः ने सर्वे विपर्ययरूपत्वादिगतायस्मान् सतथा एतादृशोमुनिर्मनशीलः सन्यासी स्थितप्रज्ञउच्यते एवंलक्षणः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनु गनिस्पृहत्वादिवाचः प्रभाषतइत्यन्वयउक्तः एवं चान्योपि मुमुक्षुर्तुःखे नोदिजेन् न प्रत्दृष्येत् रागभयक्रोधरहितश्वभवेदित्याभिप्रायः // 16 // किं च सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहः यस्मिन्सत्यन्यदीये |हानिवृद्धी स्वस्मिन्नारोप्यते सतादृशोन्याविषयः प्रेमापरपर्यायस्तामसोवृत्तिविशेषः स्नेहः सर्वप्रकारेण तद्रहितोऽनभिस्नेहः भगवति परमात्मनि तु सर्वथाभिनेहवान्भवेदेव अनात्मस्नेहाभावस्यतदर्थवादितिद्रष्टव्यं तत्तत्यारब्धकर्मपरिप्रापितं शुभं सुखहेतुं विषयं प्राप्य नाभि For Private and Personal Use Only