________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // एकः ब्युस्थिते स्थितप्रज्ञे त्रयहति केशवेति संबोधयन् सर्वान्तामितया त्वमेवेतादृशं रहस्यं वक्तुं समर्थासीति तूचयति // 54 // एतेषां चतुर्णा प्रधानां क्रमेणोत्तरं भगवानुवाच यावदध्यायसमाप्ति कामान् कामसङ्कल्पादीन्मनोवृत्तिविशेषान् प्रमाणविपर्ययवि|कल्पनिद्रास्मृतिभेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वानिरवशेषान्प्रकर्षेण कारणबाधेन यदा जहाति परित्यजति स|र्ववृत्तिशुन्यएव यदा भवति स्थितप्रज्ञस्तदोच्यते समाधिस्थइति शेषः कामानामनात्मधर्मत्वेन परित्यागयोग्यतामाह मनोगतानिति यदि ह्यात्मधर्माः स्युस्तदा न त्यक्तुं शक्येरन् वन्हयौष्णवत् स्वाभाविकत्वात् मनसस्तु धर्माएते अतस्तत्परित्यागेन परित्यक्तुं शक्यारवेत्यर्थः ननु स्थितप्रज्ञस्य मुखप्रसादालिङ्गम्यः सन्तोषविशेषः प्रतीयते सकथं सर्वकामपरित्यागे स्यादित्यतआह आत्मन्येव परमानन्दरुपे नवनात्मनि तुच्छे आत्मना स्वप्रकाशचिट्ठपण भासमाने नतु वृत्त्या तुष्टः परितृप्तः परमपुरुषार्थलाभात् तथा च श्रुतिः 'यदा सर्वे प्रमुच्यन्ते कामायेस्य वृदि श्रिताः' अथ मोमृतोभवत्यत्र ब्रह्म समभुतइति तथा चसमाधिस्थः स्थितप्रज्ञएवांविधलक्षणवाधिभिः शद्वैर्भाव्यतइति प्रथम // श्रीभगवानवाच // प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् // आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते // 55 // प्रश्रस्योत्तरम् // 66 // इदानी व्युत्थितस्य स्थितप्रज्ञस्य भाषणोपवेशनगमनानि मूढजनविलक्षणानि व्याख्येयानि तत्र किं प्रभाषेतेल्यस्योत्तरमाह दाभ्यां दुःखानि त्रिविधानि शोकमोहज्वरशिरोरोगादिनिमित्तान्याध्यात्मिकानि व्याप्रसादियुक्तान्याधिभौतिकानि अति४ा वातातिवृष्ट्यादिहेतुकान्याधिदैविकानि तेषु दुःखेषु रजः परिणामसन्तापात्मकचित्तवृत्तिविशेषेषु प्रारब्धपापकर्मप्रापितेषु नोद्विग्नं दुःख४ परिहाराक्षमतया व्याकुलं न भवति मनोयस्य सोनुदिन्नमनाः अविवेकिनोहि दुःखप्राप्तौ सत्यामहो पापोहं घिङ्मां दुरात्मानमेतादृशदुःख भागिनं कोमे दुःखमीदशं निराकुर्यादित्यनुतापात्मकोभ्रान्तिरूपस्तामसचित्तवृत्तिविशेषउद्देगाख्योजायते यद्ययं पापानुष्ठानसमयेस्यात्तदा तत्प्रवृत्तिप्रतिवन्धकत्वेन सफलः स्यात् भोगकाले तु भवेत्कारणे सति कार्यस्योच्छत्तुमशक्यत्वानिष्प्रयोजने दुःखकारणे सत्यपि किमिति मम दुःखं जायतइति अविवेकभ्रमरूपत्वान्न विवेकिनः स्थितप्रज्ञस्य संभवति दुःखमात्र हि प्रारब्धकर्मणा प्राप्यते नतु तदुत्तरकालीनोभ्रमोपि ननु For Private and Personal Use Only