________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |स्मात् उदपाने क्षुद्रजलाशये जातात्रेकवचनं यावानर्थः यावत्नानपानादिप्रयोजन भाति सर्वतः समुताद के महति जलाशये तावानों| भवत्येव यथा हि पर्वतनिर्झराः सर्वतः स्रवन्तः कचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येक जायमानमुदकपयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेन्तर्भावात् एवं सर्वेषु वेदेषु वेदोकेषु काम्यकर्मसु यावानहरण्यगर्भानन्दपर्यन्तः तावान्विजानतो ब्रह्मतत्वं साक्षात्कृतवतोब्राह्मणस्य ब्रह्म भूषोर्भवत्येव क्षुद्रानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भावात् 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः' एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपारच्छेदमादायांशांशिवढ्यप| देशआकाशस्येव घटायवच्छेदकल्पनया तथा च निष्कामकर्मभिः शुद्धान्तःकरणस्य तवात्मज्ञानोदये परब्रह्मानन्दप्राप्तिः स्यात्तयैव च सर्वानन्दप्राप्तौ न क्षुद्रानन्दापाप्तिनिबन्धनवैय्यपथावकाशः अतः परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकाणि कुर्वित्यभिप्रायः यावानर्थउदपाने सर्वतः संप्लुतोदके // तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः // 46 // | कर्मण्येवाधिकारस्ते मा फलेषु कदाचन // मा कर्मफलहेतुर्भूर्मा ते सकोस्त्वक मणि // 47 // अत्र यया तथा भवतीति पदबयाध्याहारः यात्रान् तावानीति पदव्यानुषङ्गश्च दार्शन्तिके द्रष्टव्यः // 46 // ननु निष्कामकर्मभिरात्मज्ञानं सम्पाद्य परमानन्दप्राप्तिः क्रियतेचेत्तदात्मज्ञानमेव तर्हि सम्पाद्यं किं वव्हायासैः कर्मभिर्बहिरङ्गसाधनभूतैरित्याशङ्कयाह ते तवाशुद्धान्तः करणस्य तात्त्विकज्ञानोत्पत्त्ययोग्यस्य कर्मण्येवान्तःकरणशोधकेधिकारोमयेदं कर्तव्यमिति बोधोस्तु न ज्ञाननिठारूपे वेदान्तवाक्यविचारादौ कर्म च कुर्वतस्तव तत्फलेषु स्वर्गादिषु कदाचन कस्यांचिदप्यवस्थायां कर्मानुष्टानात्यागू_ तत्काले वा अधिकारोमयेदं भोक्तव्यमिति बोधोमास्तु ननुमयेदं भोक्तव्यमिति बुद्ध्यभावपि कर्म स्वसामर्थ्यादेव फलं जनयिष्यतीति चेन्नेत्याह मा कर्मफलहेतुर्भुः फलकामनया हि कर्म कुर्वन्कलस्य हेतुरुत्पादकोभवति त्वं तु निष्कामः सन् कर्मफलहेतुर्माभूः न हि निष्कामेन भगवदर्पणबुद्ध्या For Private and Personal Use Only