________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. समिति पुनरुपातं फलाभिसन्धिमन्तरेण तु कृतानि ज्ञानोपयोगिनी शुद्धिमादधतीति सिद्धं विपश्चिदविपधितोः फलौलक्षण्यं विस्तरेण चैतदये प्रतिपादयिष्यते // 42 // // 43 // // 44 // ननु सकामानां माभूदाशयदोषाव्यवसायात्मिका बुद्धिः निष्कामानां तु व्यवसा| यात्मकबुद्धया कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्ती ज्ञानप्रतिबन्धः समानइल्याश चाह त्रयाणां गुणानां कर्म त्रैगुण्य काममूलः |संसारः सएव प्रकाश्यत्वेन विषयोयेषां तादृशाः वेदाः कर्मकाण्डात्मकाः योयत्कलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः न हि सर्वेभ्यः कामेभ्योदर्शपूर्णमासावितिविनियोगेपि सकृदनुष्टानात्सर्वफलप्राप्तिर्भवति तत्तकामनाविरहात् यत्कलकामनयानुतिष्ठति तदेव फल तस्मिन्ययोगद्दतिस्थित योगसिद्ध्यधिकरणे यस्मादेवं कामनाविरहे फलविरहः तस्मात्त्वं निखैगुण्योनिष्कामाभव हे अर्जुन एतेन कर्मस्वाभाव्यात्संसारोनिरस्तः ननु शीतोष्णादिइन्द्रप्रतीकाराय वस्त्रायपेक्षणाकुतोनिष्कामत्वमताह नि त्रैगुण्यविषयावेदानिस्वैगुण्योभवार्जुन // निबन्दोनित्यसत्त्वस्थोनिर्योगक्षेमआत्म वान् // 45 // ईन्दः सर्वत्र भवेति संबध्यते मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिइन्दसहिष्णुर्भव असा दुःखं कथं वा सोढव्यमित्यपेक्षायामाह नित्यसत्त्वस्थः नित्यमचञ्चलं यत्सत्त्वं धैर्यापरपर्यायं तस्मिंस्तिष्ठतीति तथा रजस्तमोभ्यामाभिभूतसत्त्वोहि शीतोष्णादिपीडया मारिष्यामीति मन्नानोधर्माद्विमुखोभवति त्वं तु रजस्तमसी अभिभूय सत्त्वमात्रालम्बनोभव ननु शीतोष्णादिसहनेपि क्षुत्पिपासादिप्रतीकारार्थ किंचिदनुपात्तमुपादेयमुपात्तं च रक्षणीयमिति तदर्थ यत्ने क्रियमाणे कुतः सत्त्वमित्यतआह निर्योगक्षेमः अलब्धलाभोयोगः लब्धपरिरक्षणं क्षेमस्तद्रहितोभव चित्तविक्षेपकारिपरिग्रहरहितोभवेत्यर्थः न चैवं चिन्ता कर्तव्या कथमेव सति जीविष्यामीति यतः सर्वान्तर्यामी परमेश्वरएव तव योगक्षेमादिनिर्वाहयिष्यतीत्याह आत्मवान् आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य सआत्मवान् सर्वकामनापरित्यागेन परमेश्वरमाराधयतोमम सएव देहयात्रामात्रमपक्षितं सम्पादयिष्यतीति निश्रित्य निश्चिन्ताभवेत्यर्थः आत्मवानप्रमत्तोभवति वा // 45 // न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्मकुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैवञ्चितः स्यामिति य // 29 // For Private and Personal Use Only