________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धनीयोभोगस्तत्कारणं च यदैश्वर्य देवादिस्वामित्वं तयोर्गतिं प्राप्ति प्रति साधनभूनाये क्रियाविशेषाअमिहोत्रदर्शपूर्णमासज्योतिष्टोमादय|स्तैर्बहुलां विस्तृतां अतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत् कर्मकाण्डस्य हि ज्ञान काण्डापेक्षया सर्वत्रा. तिविस्ततत्वं प्रसिद्ध एतादृशीं कर्मकाण्डलक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति के ये अविपश्चितः विचारजन्यतात्पर्यपरिज्ञान शून्याः अतएव वेदवादरताः वेदे ये सन्ति वादाअर्थवादाः अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीत्येवमादयस्तेष्वेव रतावेदार्थ सत्यत्वेन एवमेवैतदिति मिथ्याविश्वासेनासन्तुष्टाः हे पार्थ अतएव नान्यदस्तीति वादिनः कर्मकाण्डापेक्षया नास्त्यन्यत् ज्ञान काण्डं सर्वस्यापि वेदस्य कार्यपरवान् कर्मकलापेक्षया च नास्त्यन्यनिरतिशयं ज्ञान फलमिति वदनशीलाः महता प्रवन्धेन ज्ञानकाण्डविरुद्धार्थभाषिणइत्यर्थः कुतोमोक्षदेषिणस्ते यतः कामात्मानः काम्यमानविषयशताकुलचित्तत्वेन काममा ระะะะะะะะะะะะะะะะะ कामात्मानः स्वर्गपराजन्मकर्मफलप्रदाम् // क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति // 13 // भोगैश्वर्यप्रसक्तानां तयापत्तचेतसाम् // व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४॥ याः एवंसति मोलमपि कुतोन कामयन्ते यतः स्वर्गपराः स्वर्गएबोर्वश्यायपेतत्वेन परउत्कृष्टोयेषांते तथा स्वर्गातिरिक्तपुरुषार्थोनास्तीति भ्राम्यन्तोविवेकवैराग्याभावान्मोक्षकथामपि सोहुमक्षमाइति यावत् तेषां च पूर्वोक्त गैश्वर्ययोः प्रसक्तानां क्षयित्वादिदोषादर्शनेन निविष्टान्तःकरणानां तया क्रियाविशेषबहुलया वाचापत्तृतमाच्छादितं चेतीविवेकज्ञानं येषां तथाभूतानां अर्थवादाः स्तुत्यर्थाः तात्पर्य विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुपसिद्धमपि ज्ञातुमशक्तानां समाधावन्तःकरणे व्यवसायात्मिका बद्धिर्न विधीयते न || भवतीत्यर्थः समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा अधिकरणे विषये वा सप्तम्यास्तुल्यत्वात् विधीयतइति कर्म| कर्तरिलकारः समाधीयतेऽस्मिन् सर्वमिति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मावेति नाप्रसिद्धार्थकल्पनं अहं ब्रह्मेत्यवस्थानं स-1 माधिस्तन्निमित्तं व्यवसायात्मिका बुद्धि!त्पद्यतइति व्याख्याने तु रूढिरेवादृता अयंभावः यद्यपि काम्यान्यग्निहोत्रादीनि शुद्ध्यर्थेभ्योन विशिष्यन्ते तथापि फलाभिसन्धिदोषान्नाशयशुद्धि संपादयन्ति भोगानुगुणातु शुद्धिर्न ज्ञानोपयोगिनी एतदेव दर्शयितुं भोगैश्वर्यप्रसक्ताना For Private and Personal Use Only