SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नाशकेनेति श्रुत्या विविदिषां ज्ञानं चोदिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तःकरणशुद्धीरत्वान्यान्प्रति कर्मानुवान विधीयते तत्र तद्यथेह कर्मचितोलोकः क्षीयतएवमेवामुत्र पुण्यचितोलोकः क्षीयतइति श्रुतिबोधितस्य फलनाशस्य संभवात् ज्ञानं विविदिषां |चोदिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासंपत्तावपि वैगुण्योपपत्तेः यज्ञेनेत्यादिवाक्यविहितानां |च सर्वेषां कर्मणामेकेन पुरुषायुषपर्यवसानपि कर्नुमशक्यत्वात् कुतः कर्मबन्ध प्रहास्यसीतिफलप्रत्याशेल्यतआह भगवान् अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रतिपादितः इह निष्कामकर्मयोगे नास्ति एतत्फलस्य शुद्धेः पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासंभवात वेदनपर्यन्तायाएव विविदिषायाः कर्मफलत्वादेदनस्य चाव्यवधानेनाज्ञान-1 निवृत्तिफलजनकस्य फलमजनयित्वा नाशासंभवादिह फलनाशोनास्तीति साधूक्तं तदुक्तं तद्यथेहेति या निन्दा सा फले न तु कर्मणि फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृतिति' तथा प्रत्यवायः अभवैगुण्यनिवन्धनं वैगुण्यामिह न विद्यते तमितिवाक्येन नित्यानानेवो नेहाभिकमनाशोस्ति प्रत्यवायोन विद्यते // स्वल्पमप्यस्य धर्मस्य त्रायते महतोभयात् // 40 // 888888888發發發發 पात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात् तत्र च सर्वाङ्गोपसंहारनियमाभावान् काम्यानामपि संयोगपृथक्वन्यायेन विनियोगइति पक्षेपि फलाभिसन्धिरहितत्वेन तेषां नित्यतुल्यत्वात् न हि काम्यनित्याग्निहोत्रयोः स्वतः कश्चिद्विशेषोस्ति फलाभिसन्धितदभावाभ्यामेव तुकाम्यत्वनित्यत्वव्यपदेशः इदं च पक्षयमुक्तं वार्तिके 'वेदानुवचनादीनामैकात्म्यज्ञानजन्मने तमेतमितिवाक्येन नित्यानां वक्ष्यते विधिः यदा विविदिषार्थवं काम्यानामपि कर्मणां तमेतमिति वाक्येन संयोगस्य पृथक्त्वतहति' तथा च फलाभिसन्धिना क्रियमाणएव कणि सर्वाझोपसंहारनियमात् तद्विलक्षणे शुद्धयर्थे कर्मणि प्रतिनिध्यादिना समातिसंभवान्नागमवैगुण्यनिमित्तः प्रत्यवायोस्तीत्यर्थः तथा अस्य शृद्ध्यर्थस्य धर्मस्य तमेतमित्यादिवास्यविहितस्य मध्ये स्वल्पमपि सङ्ख्ययेतिकर्तव्यतयात्रा यथाशक्तिभगवदाराधनार्थं किञ्चिदप्यनुष्ठितं सत महतः संसारभयात्त्रायते भगवत्प्रसादसम्पादनेनानुष्टातारं रक्षति 'सर्वपापप्रसक्तोपि ध्यायन्निमिषमच्युतं भूयस्तपस्वी भवति पङ्क्तिपावन For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy