________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 27 // WHERE 868888888888888 कर्मप्रतिक्षेपात् नह्यकर्बभोक्तशुद्धस्वरूपोहमस्मि युद्धं कृत्वा तत्फलं भोल्यइति च ज्ञानं संभवति विरोधात् ज्ञानकर्मणोः समुच्चयासं. भवात्प्रकाशतमसोरिव अर्य चार्जुनाभिप्रायोज्यायसीचेदित्यत्र व्यक्तोभविष्यति तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणश्चापदेशोनोपपद्यते इति चेत् न विदविइदवस्थाभेदेन ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवान् एषा नवेवाहमित्याद्यकविंशतिश्लोकैः ते तुभ्यमभिहिता सापये सम्यक् ख्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति सङ्ग्योपनिषत् तयैव तात्पर्यपरिसमाप्त्या प्रतिपाद्यते यः ससाइयः औपनिषदः पुरुषइत्यर्थः तस्मिन् बुद्धि स्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतः क्वचि. | दपि कर्मोच्यते तस्य कार्य न विद्यतहानि वक्ष्यमाणत्वात् यदि पुनरेवं मयोक्तेपि तवैषा बुद्धिनोंदति चेञ्चित्तदोषात् तदा तदपनयेनात्मतत्त्वसाक्षात्काराय कर्मयोगएव वयानुष्टेयः तस्मिन्योगे कर्मयोगे तु करणीयामिमां सुखदुःखे समेकृत्वेत्यत्रोक्ता फलाभिसन्धित्यागलक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां श्रृणु तुशब्दः पूर्वबुद्धेर्योगविषयत्वन्यतिरेकसूचनार्थः तथा च शुद्धान्तःकरणप्रति ज्ञानोपदेएषा तेऽभिहिता साङ्खये बुद्धिोंगे विमां शृणु // बुद्ध्या युक्तोयया पार्थ कर्मवन्धं प्रहास्यसि // 39 // शोऽशुद्धान्तःकरणं प्रति कर्मोपदेशइति कुतः समुच्चयशङ्कया विरोधावकाशइत्याभप्रायः योगविषयां बुद्धिं फलकथनेन स्तौति यया व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तत्वं कर्मनिमित्तं बन्धं आशयाऽशुद्धिलक्षणं ज्ञानप्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्तिरुपेण हास्यसि त्यक्ष्यसि अयंभावः कर्मनिमित्तोज्ञानप्रतिबन्धः कर्मणैव धर्माख्येनापनेनं शक्यते धर्मेण पापमपन्दनीति श्रुतेः श्रवणादिलक्षणो-I विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासंभावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते अतोत्यन्त मलिनान्तःकरणत्वाहिरङ्गसाधनं कर्मैव त्वयानुष्ठेयं नाधुना श्रवणादियोग्यतापि तव जाता दूरेतु ज्ञानयोग्यतेति तथा च वक्ष्यति कर्मण्येवाधिकारहति एतेन सामयबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव | भगवता किमित्यर्जुनायोपदिश्यतइति निरस्त कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्यानेत्वध्याहारदोषः कर्मपदवैयर्थं च परिहर्तव्यम् // 39 // ननु तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसा 品的保保保保民农民路径各民的民的 // 27 // For Private and Personal Use Only