SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 25 // न हिंस्यात्सर्वभूतानि ब्राह्मणं न हन्यादित्यादिशास्वनिषिद्धस्य प्रत्यवायजनकत्वात् फले विध्यभावाच न विधिस्पृष्टे निषेधानवकाशइति न्यायावतारः युद्धस्यहि फलं स्वर्गः सच न निषिद्धः तथा च मनुः 'आहवेषु मियोन्योन्य जिघांसन्तोमहीक्षितः युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाइति। युद्धंतु अग्नीषोमीयाद्यालम्भवदिहितत्वान्न निषेधेन स्पष्टुं शक्यते षोडशिग्रहणादिवत् ग्रहणाग्रहणयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण सोचसंभवात् तथा च विधिस्पृष्टे निषेधानवकाशइति न्यायायुदं न प्रत्यवायजनक नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तोदोषः तेषामाततायित्वात् दुक्तं मनुना 'गुरुं वा बालवृद्धौ वा ब्राह्मणवा बहुश्रुतं आततायिनमायान्तं हन्यादेवाविचारयन् आततायिनमायान्तमाप वेदाङ्गपारगं जिवांसन्तं निघांसीयान्न तेन ब्रह्महा भवेत् नाततायिवधे दोषोहन्तुर्भवति कश्चनेत्याद ननु स्मृत्योंविरोधे न्यायस्तु बलवान्व्यवहारतः अर्थशास्त्रात्तु बलबद्धर्मशास्त्रमिति स्थितिरिति याज्ञवल्क्यवचनात् आततायिब्राह्मणवधेपि प्रत्यवायोस्त्येव ब्राह्मणन हन्यादिति हि दृष्टप्रयोजनानपेक्षवाद्धर्मशास्त्र जिघांसन्तं जिवांसीयान तेन ब्रह्महा यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं // सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशं // 32 // भवेत् इति च स्वजीवनार्थत्वादर्थशास्त्र अत्रोच्यते ब्रह्मणे ब्राह्मणमालभेत इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव सुखदुःखे समे कुवे त्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् याज्ञवल्क्यवचनंतु दृष्टप्रयोजनोद्देश्यककूटयुद्धादिकृतवधविषयमित्यदोषः मिताक्षराकारस्तु धर्मार्थसन्निपातेथग्राहिणएतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छपरामष्टस्यापस्तम्बेन विधानान्मित्रलब्धाद्यर्थशास्त्रानुसारेण चतुष्पाइयवहारे शत्रोरपि जये धर्मशास्त्रातिक्रमोन कर्तव्यइत्येतत्परं वचनमेतदित्याह भवत्येवं न नो हानिः तदेवं युद्धकरणे सुखोक्तेःस्वजन हि कथं हत्वा सुखिनः स्याम माधवेत्यर्जुनक्तिमपाकृतम् // 32 // ननु नाहं युद्धफलकामः नकाङ्के विजयं कृष्ण अपि त्रैलोक्यराज्यस्येत्युक्त्वा तत्कथं मया कर्तव्यमित्याशझ्याकरणे दोषमाह अथेति पक्षान्तरे इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धयं हिंसादिदोषेणादुष्टं सतां धर्मादनपेतमिति वा सच मनुना दर्शितः 'न कूटैरायुधैईन्यायुध्यमानोरणे रिपून न कणिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः न च हन्यात्स्थलारूढं नक्कीवं न कृताञ्जलिम् न मुक्तकेशं नासीनं न तवास्मीति वादिनं न सुप्तं न विसन्नाहं न न न निरायुधम् नायुध्यमान 好长好长队的民於民路尽快 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy