SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गी. म. // 02 // मृत वा मन्यसे वा शश्चार्थे क्षणिकत्वपक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान्नित्यं नियतं जातोयं मृतोयमिति लौकिकप्रत्ययवशेन यदि कल्पयसि तथापि हे महाबाहो पुरुषधौरेयति सोपहासं कुमताभ्युपगमात् त्वय्येतादृशी कुदृष्टिन संभवतीति सानुकम्पं वा एवं अहो बत महत्पापं कर्तुं व्यवसितावयमित्यादि यथा शोचसि एवं प्रकारं अनशोक कर्तुं स्वयमाप त्वं तादृशएव सन् नार्हसि योग्योनभवसि क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्म विनाशपक्षे च जन्मान्तराभावेन पापभयासंभवात पापभयेनैव खल त्वमनशोचसि तच्चैतादृशे दर्शने नसंभवतीत्यर्थः क्षणिकत्वपक्षे च दृष्टमपि दुःख न संभवति बन्धुविनाशदर्शित्वाभावादित्यधिक पक्षान्तरे दृष्टदुःखनिमित्तं शोकमभ्यनुज्ञातुमेवंकारः दृष्टदुःखनिमित्तशोकसभषेप्यदृष्टदुःखनिमित्तः शोकः सर्वथा नोचितइत्यर्थः प्रथमश्लो| कस्य // 26 // नन्वात्मनआभूतसंप्लवस्थायित्वपक्षे नित्यत्वपक्षे वृष्टादृष्टदुःखसंभवात्तगयेन शोचामीत्यतआह द्वितीयश्लोकेन हि यस्मान् जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरेंन्द्रियसंबन्धस्य स्थिरस्यात्मनोध्रुवआवश्यकोमृत्युस्तच्छरीरादिविच्छेदः तदारभ्भकक जातस्य हि ध्रुवोमृत्युर्बुवं जन्म मृतस्यच // तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि // 27 // मक्षयानमित्तः संयोगस्य वियोगावसानत्वात् तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोर्गार्थ सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्तेर्व्यभिचारः तस्मादेवमपरिहार्य परिहर्तुमशम्यस्मिन् जन्ममरणलक्षणेथे विषये त्वमेवं विद्वान्न शोचितुमर्हसि तथा च वक्ष्यति ऋतेपि त्वां नभविष्यान्त सर्वइति यदि हि त्वया युद्धेनाहन्यमानाएते जीवेयुरेव तदा युद्धाय शोकस्तवोचितः स्यात् एते तु कर्मक्षयास्वयमेव नियन्तइति तत्परिहारासमय सब देखदुःखनिमित्तः शोकोनोचित इति भावः एवमवृष्टदुःखनिमित्तेपि शोके तस्मादपरिहार्येर्थे इत्येवोत्तरं युद्धाख्यं हि कर्म क्षत्रियस्य नियतमाग्रिहोत्रादिवत् यच युधसंप्रहारइत्यस्माद्धातोनिप्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वादनीषोमीयादिहिंसावन्न प्रत्यवायजनक तथा च गौतमः स्मरति नदोषोर्हसायामाहवन्यत्र व्यश्वासारथ्यनायुधकृतांजलीप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूनगोब्राह्मणवादिभ्यइति ब्राह्मणग्रहणं चात्रायोब्राह्मणविषयं गवादिप्रायपाठादितिस्थित एतच्च सर्व स्वधर्ममाप चावेश्येत्यत्र स्पष्टीकरिप्यते तथा च युद्धलक्षणेथैमिहोत्रादिवद्विहितत्वादपरिहार्य परिहर्तुमशक्ये 8 // 22 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy