SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री. म. अ.१८ स्वपक्षः स्थापितः इदानी त्याज्यं दोषवदित्य के कर्मपाहुमनीषिणहनि परपक्षस्य पूर्वोकत्यागत्रविध्यव्याख्यानेन निराकरणमारभते काम्यस्य कर्मणोन्तःकरणशुद्धिहेतुन्वाभावेन बन्धहेतुत्वेन च दोषत्वाद्बन्धनिवृत्ति हेतुबोधार्थिना क्रियमाणस्ल्यागउपपद्यतएव नियतस्य नित्यस्य कर्मणः शुद्धिहेतुत्वेनादोषस्य संन्यासस्त्यागोमुमुक्षुणान्तःकरणशुद्ध्यार्थना नोपपद्यते शास्त्र पुक्तिभ्यां तस्यान्तःकरणशुद्धयर्थमवझ्यानुष्टेयस्यान् तथात्रोक्तं प्राक् आरुरुक्षोनुने योगं कर्म कारण मुच्यतइति ननु दोष पवं काम्यस्त्र नित्यस्याधि दर्शपूर्णमासज्योतिष्टोलादेबाहिपश्वादिहें सामिश्रितत्वेन साङ्ख्यैरभिहितं न च त्रीहीनवहनि अनीषोमीयं पशुमालभतइत्यादि विशेषविधिगोचरत्वात् क्रत्वङ्गहिसायान हिंस्यात् सर्वभूतानीति सामान्यनिषेधस्य तदितरपरत्वमिति साम्पतं भिन्नविषयत्वेन विधिनिषेधयोरबाधेनैव समावेशसंभवान् निषेधेनहि पुरुषस्यानर्थ हेतुर्हिसेत्यभिहितं न वक्रत्वा सेति विधिना | च क्रत्वर्था सेत्यभिहितं न खनर्थ हेतुर्नेति तथा च ऋतूपकारकत्वपुरुषानर्थहेतुत्वयोरेकत्रसंभवान् क्रत्वर्थापि हिंसानिषिद्धैवेति हिंसायुक्त दर्शपूर्णमासज्योतष्टोमादि सर्व दुष्टमेव विहितस्यापि निषिद्धलं निषिद्धस्यापि च विहितत्वं श्येनादिवदुपपन्नमेव यथाहि श्येनेनाभिचरन्यजेतेत्याद्यभिचारविधिना विहितोपि श्येनादिर्न हिंस्यात्सर्वभूतानीति निषेधविषयत्वादन हेतुरेव तदोषसहिष्णोरेव च रागद्वेषादिवशीकृतस्य तत्राधिकारः एवं ज्योतिष्टोमादावपि तथा चोकं महाभारते ‘जपस्तु सर्वधर्मेभ्यः परमोधर्मउच्यते अहिंसया हि भूतानां जपयज्ञः प्रवर्ततइति मनुनापि 'जप्येनैव तु संसिध्येब्राह्मणोनात्र संशयः कुर्यादन्यन्न वा कुर्यान्मैत्रोब्राझणउच्यतइति वदना मंत्रीमहिसां प्रशंसता हिंसायादृष्टत्वमेव प्रतिपादितं अन्तःकरणशुद्धिश्चेदृशेन गायत्रीज पादिना सुतरामुपपत्स्यतइति हिसादिदोषाटं ज्योतिष्टोमादि नित्यं कर्म दोषासहिष्णुना येनादिकमिव कर्माधिकारिणापि त्याज्यामिति प्राप्ते ब्रूमः न त्वक्रत्वा हिंसाऽनर्थहेतुः विधिस्पृष्टे निषेधानवकाशात तथाहि विधिना बल बदिच्छाविषयसाधनताबोधरूपां प्रवर्तनां कुर्वताऽनर्थसाधने तदनुपपत्तेः स्वविषयस्य प्रवर्तनागोचरस्यानर्थसाधनत्वाभावोप्यर्थादाक्षिप्यते तेन विधिविषयस्य नानर्थहेतुत्वं युज्यते न हि क्रत्वर्थत्वं साक्षाद्विध्यर्थः येन विरोधोन स्यात् किंतु प्रवर्तनेनैव प्रवर्तनाकर्मभूता तु पुरुषप्रवृत्तिः पुरुषार्थमेव विषयी कुर्वनी कवित् क्रतुमपि पुरुषार्थसाधनत्वेन पुरुषार्थभावमापन विषयीकगेतीत्यन्यत् पुरुषप्रवृत्ति बलवदिच्छोपधानदशायां ज्ञायमाना नभाव्यस्यार्थडेतुतामाक्षिपति न वानर्थ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy