________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - हेतुतो प्रतिक्षिपति किंतु यथा प्राप्तमेवावलम्बते बलवदिच्छाविषये स्वतएव प्रवृत्तेः स्वर्गादौ विध्यनपेक्षणात् अतएव विहिनश्येनफलस्यापि शवधरूपस्याभिचारस्थानर्थहेतुत्वमुपपद्यतएव फलस्य विधिजन्यप्रवृत्तिविषयत्वाभावान् विधिजन्यप्रवृत्तिविषयं तु धात्वर्थं करणं प्रवर्तनावलम्बते सा चानहेतुं न विषयीकरोतीति विशेषविधिबाधितं सामान्यानषेधवाक्यं रागद्वेषादिमूलाक्रत्वर्थलौकिकहिंसाविषयं तेन इथेनानीषोमीययोर्वेषम्यादुपपन्नमदुष्टत्वं ज्योतिष्टोमादेः विधिस्पष्टस्यापि निषेधविषयत्वे षोडशिग्रहणस्याप्यनर्थहेतुत्वापत्ति तिरात्रे पोडशिनं गृहातीति निषेधान् तस्मान्न किञ्चिदेतदिति भाई दर्शने प्राभाकर तु दर्शनं फलसाधने रागतएव प्रवृत्तिसिद्धेर्न नियोगस्य प्रवर्तकत्वं तेन श्येनस्य रागजन्यप्रवृत्तिविषयत्वेन विधेरौदासीन्यान नस्यानर्थहेतुत्वं विधिना प्रतिक्षिप्यते आमीषोमीयहिंसायां तु क्रत्वगभूनायां फलसाधत्वाभावेन रागाभावाद्विधिरेव प्रवर्तकः सच स्वविषयस्यानर्थहे तुतां प्रतिक्षिपनीति प्रधानभूता हिंसानर्थ जनयति न क्रत्वर्थति न हिंसामित्वेन ज्योतिष्टोमादेर्तुष्टत्वमिति सममेव एतावन्मात्रेतु विशेषः चोदनालक्षणोऽर्थोधर्मइत्यत्रार्थ पदव्यावर्त्यत्वेनाधर्मत्वं श्येनादेः प्राभाकरमते भाट्टमते तु श्येनफलस्यैवाभिचारस्यानर्थहेतुत्वादधर्मत्वं श्येनस्य तु विहितस्य समी नियतस्य तु संन्यासः कर्मणोनोपपद्यते // मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥७॥ हितसाधनस्य धर्मत्वमेव अर्थपदव्यावर्त्यत्वं तु कलजभक्षणादेनिषिद्धस्यैवेति फलतोनर्थहेतुत्वेन तु शिष्टानां श्येनादौ न धर्मत्वेन व्यवहारः तदुक्तं 'फलतोपि च यत्कर्म नानर्थनानुबध्यते केवलप्रीतिहेतुत्वात्तद्धर्मइति कथ्यतइति' तार्किकाणां तु दर्शनं कृतिसाभ्यत्वमर्थहेतुत्वमनहेतुत्वं चेति त्रयं विध्यर्थः तत्र क्रत्व हिंसायां साक्षानिषेधाभावात्मायश्चित्तानुपदेशाच कृतिसाध्यत्वार्थहेतुत्ववदनाहेतुत्वमपि विधिना बोध्यतइति न तस्यानर्थहेतुवं श्येनादेस्त्वभिचारस्य साक्षादेव निषेधात्प्रायश्चित्तोपदेशाचानर्थ हेतुत्वावगमात्तावन्मात्रं तब विधिना न बोध्यतइत्युपपन्नं श्येनाग्नीषोमयावलक्षण्यं ओपनिषदैस्तु भाट्टमेव दर्शन व्यवहारे पायेणावलम्बितं तथा च भगवद्बादरायणप्रणीतं सूत्र ‘अशुद्धमिति चेन्न शब्दादिति / ज्योतिष्टोमादिकर्म अमीषोमीयहिंसादिमिश्रितत्वेन दुष्टमिनिचेत् न अग्रीषोमीयं पशुमालभेनेत्यादिविधिशब्दादित्यक्षरार्थः जपप्रशंसापर तु वाक्यं नक्रत्वर्थहिंसायाअधर्मलबोधकं तस्य तत्रातात्पर्यात् तथाच सांख्यानां विहिते निषिद्धत्वज्ञानमनहेतावनर्थहेतुत्वज्ञानं धर्म चाधर्मत्वज्ञानमनुष्टेये चाननुटेयत्वज्ञानं विपर्यासरूपोमोहः तस्मान्मोहानित्यस्य कर्मणायः परित्यागः सतामसः परिकीर्तितः मोहोहि तमः // 7 // For Private and Personal Use Only