________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.भ. तदननुष्ठानेन शौचाचारादिरहितत्वं दुष्टानां शासितुर्भगवतोऽपि लोकवेदप्रसिद्धत्वादतआह सत्यमबाधिततात्पर्यविषयं तत्त्वावेदक वेदाख्य Relfअ.१६ प्रमाणं तदुपजिवि पुराणादि च नास्ति यत्र तदसत्यं वेदस्वरूपस्य प्रत्यक्षसिद्धत्वेपि तत्प्रामाण्यानभ्युपगमादिशिष्टाभावः अतएवं नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थाहेतर्यस्य तदप्रतिष्टं तथा नास्ति शुभाशुभयोः कर्मणोः फलदातेश्वरोनियन्ता यस्य तदनीश्वरं ते आतुराजगदाहुः बलवत्पापमनियन्धाद्वेषस्य प्रामाण्यं ते नमन्यन्ते ततश्च नद्बोधितयोर्धर्माधर्मयोरीश्वरस्य चानगङ्गीकारायथेटाचरणेन ते पुरुषार्थभ्रष्टाइत्यर्थः शास्त्रकसमधिगम्यधर्माधर्मसहायेन प्रकृत्यधिष्ठात्रा परमेश्वरेण रहितं जगदिष्यतेचेत्कारणामा. वात्कथं तदुत्पत्तिरित्याशङ्कयाह अपरस्परसंभूतं कामप्रयुक्तयोस्त्रीपुंसयोरन्योन्यसंयोगात् संभूतं जगत्कामहैतुकं कामहेतुकमेव काम-| असत्यमप्रतिष्ठं ते जगंदाहुरनीश्वरम् // अपरस्परसंभूतं किमन्यत्कामहैतुकम् // 8 // एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पवुद्धयः॥प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥ 9 // | 1505861205:505252525251525152515250 हैतुकं कामातिरिक्तकारणशून्यं ननु धर्माद्यप्यस्ति कारणं नेत्याह किमन्यत् अन्यददृष्टं कारणं किमस्ति नास्त्येवेत्यर्थः अदृष्टाहुने कारेऽपि क्वचिद्गत्वा स्वभावे पर्यवसानात् स्वाभाविकमेव जगचित्र्यमस्तु दृष्टे संभवत्यदृष्टकल्पनानवकाशात् अतः कामएव प्राणिनां कारणं नान्यदष्टेश्वरादीत्याहुरिति लोकायतिकदृष्टिरियं // 8 // इयं दृष्टिः शास्त्रीयदृष्टिवदिष्टैवेत्याशङ्कयाह |एतां प्रागुक्तां लोकायतिकदृष्टिमवष्टभ्यालंव्य नष्टात्मानोभ्रटपरलोकसाधनाः अल्पबुद्धयोदृष्टमात्रीहेशप्रवृत्तमतयः उपकर्माणोहित्राः अहिताः शत्रयोजगतः प्राणिजातस्य क्षयाय व्याघ्रसपादिरूपेण प्रभवन्ति उत्पद्यन्ने तस्मादियं दृष्टिरत्यन्ताधोगतिहेततया सर्वात्मना श्रेयोथमिरेवहेयवेत्यर्थः // 9 // ते च यदा केनचित्कर्मणा मनुष्ययोनिमापद्यन्ते तदाह For Private and Personal Use Only