SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भुजानं वा शब्दादीन् विषयान् गुणान्वितं सुखदुःखनोहात्मकैर्गुणैरन्वितं एवं सर्वास्तवस्थासु दर्शनयोग्यमप्येनं विमूढादृष्टादृष्टविषयभोगवासनाकृष्टचेतस्तयात्मानात्मविवेकायोग्यानानुपश्यन्ति अहोकष्टं वर्ततइत्यज्ञाननुक्रोशति भगवान् येतु प्रमाणजनितज्ञानचक्षुषोविवेकिनस्तएव पश्यन्ति // 10 // पश्यन्ति ज्ञानचक्षुषइत्येतद्विवृणोति आत्मनि स्वबुद्धौ अवस्थितं प्रतिफलितमेनमात्मानं यतन्तोध्यानादिभिः प्रयतमानायोगिनएव पश्यन्ति चोवधारणे यतमानामप्यकृतात्मानोयज्ञादिभिरशोधितान्तःकरणाः अतएवाचेतसोविवेकशून्यानैनं पश्यन्तीति मूढानानुपश्यन्तीत्येतदिवरणम् // 11 // इदानीं यत् पदं सर्वावभासनक्षमाभप्यादित्यादयोभासयितुं न क्षमन्ते य उत्कामन्तं स्थितं वापि भुजानं वा गुणान्वितम् // विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः // 10 // यतन्तोयोगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् // यतन्तोप्यरुतात्मानो. नैनं पश्यन्त्यचेतसः // 11 // यदादित्यगतं तेजोजगद्भासयतेऽखिलम् // यच्चन्द्रमसि य चानो तत्तेजोविद्धि मामकम् // 12 // साप्ताच मुमुक्षवः न पुनः संसाराय प्रवर्तन्ते यस्य च पदस्योपाधिभेदमनुविधीयमानाजीवावटाकाशादयह वाकाशस्य कल्पितांशामषैव संसार मनुभवन्ति तस्य पदस्य सर्वात्मत्वसर्वव्यवहारास्पदत्वप्रदर्शनेन ब्रह्मणोहि प्रतिष्ठाहमिति प्रागुक्तं विवरीतुं चतुर्भिः लोकरात्मनोविभूतिसङ्केपमाह भगवान् न तत्र सूर्योभाति 'न चन्द्रतारकं नेमाविद्युतोभानि कुतोयमग्निरिति' श्रुत्यध प्राग्व्याख्यातं न तद्भासयते सूर्यइत्यादिना | 'तमेवभान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुत्यर्धमनेन व्याख्यायते यदादित्यगत तेजधैतन्यात्मकं ज्योतियचन्द्रमास यथानी स्थित तेजोजगदखिलमवभासयते तत्तेजोमामकं मदीयं विद्धि यद्यपि स्थावरज For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy