________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir วัญ 1152515251525061145505 यदि गच्छान्ति तर्यावर्तन्तएव स्वर्गवत् अथ नावर्तन्ते तार्ह न गच्छन्ति तेन गयोते न निवर्तन्तइति च परस्परविरुद्धं 'सर्वेक्षयान्तानिचयाः पतनान्ताः समुच्छ्याः संयोगाविप्रयोगान्तामरणान्तं हि जीवितमिनि हि शास्त्रे लोके च प्रसिद्ध अनात्मत्वात्यानिः पुनरावृत्तिपर्यवसाना न त्वात्ममानिरिनिचेत् न सुषुप्ती 'सता सोम्य तदा संपन्नोभवतीति / श्रुतिप्रतिपादितायाभप्यात्मप्रातः पुनरावृत्तिपर्यन्तत्वदर्शनात् अन्यथा सुपुतस्य मुक्तत्वेन पुनरुत्थानं न स्यात् तस्मादात्मानौ गत्यति नोपपद्यते तस्यौपचारिकखेप्यनिवृत्ति!पपद्यतइत्येवं प्राप्ते ब्रूमः गन्तुर्जीवस्य गन्तव्यब्रह्माभिन्नत्वागत्वेन्यौपचारिक अन्जानमात्रव्यवाहितस्य तस्य ज्ञानमात्रेणैव प्राप्रिव्यपदेशात् यदि ब्रह्मणः प्रतिबिम्बोजीवस्तदा यथा जलप्रतिबिम्बितसूर्यस्य जलापाये बिम्बभूतसूर्यगमन ततोनावृत्तिथ यदि च बुद्धचवच्छिनोब्रह्मभागोजीवस्तदा यथा घटाकाशस्य घटापाये महाकाशं प्रति गमनं ततोनावृत्तिश्च तथा जीवस्याप्युपाध्यपाये निरुपाधिस्वरूपगमनं ततोनावृत्तिवेत्युपचारादुच्यते एकस्वरूपत्वाद्भेदभ्रमस्य चोपाधिनिवृत्त्या निवृत्तेः सुषुप्नौनु अज्ञाने स्वकारणे भावना कर्मपूर्वप्रज्ञासाहतस्यान्तःकरणस्य जीवोपाधेः सूक्ष्मरूपेणावस्थानात्ततएवज्ञानात्पुनरङ्गवः संभवति ज्ञानादज्ञाननिवृत्तीतु कारणाभावात् कुतः कार्यादयः स्यादज्ञानप्रभवत्वादन्तःकरणायुपाधीनां तस्माज्जीवस्याहं ब्रह्मास्मीति वेदान्तवाक्यजन्यसाक्षाकारादह न ब्रह्मेत्यज्ञाननियत्तिर्गत्वेत्युच्यते निवत्तस्य चानाद्यं ज्ञानस्य पुनरुत्थानाभावेन तत्कार्यसंसाराभावेन तत्कार्यसंसाराभावोन निवर्तन्त इत्युच्यतइति न कोपि विरोधः जीवस्य तु पारमार्थिकं स्वरूपं ब्रह्मवेत्यसकृदावदितं तदेतत् सर्व प्रतिपाद्यतउत्तरेण ग्रन्थेन तत्र जविस्य ब्रह्मरूपत्वादज्ञाननिवृत्त्या तत्स्वरूपं प्राप्तस्य ततोन प्रच्युतिरिति प्रतिपाद्यते ममैवांशइति श्लोकान सुषुनौतु सर्वकार्यसंस्कारसहिताज्ञानसत्त्वात्ततः पुनः संसारोजीवस्यति मनः षष्ठानीति लोकाधन प्रतिपाद्यते ततस्तस्य वस्तुतोऽसंसारिणोपि मायया संसारं प्राप्तस्य मन्दमतिभिर्देहतादात्म्यं प्रापितस्य देहाझ्यतिरेकः प्रतिपाद्यते शरीरमित्यादिना लोकार्धन श्रोत्रं |चक्षुरित्यादिना तु यथायथं सविषयेष्धिन्द्रियाणां प्रवर्तकस्य तस्य तेभ्योव्यतिरेकः प्रतिपाद्यते एवं देहेन्द्रियादिविलक्षणमु क्रान्त्यादिसनये स्वात्मरूपत्वात् किमिति सर्वे न पश्यन्तीत्याशङ्कायां विषयविक्षिपचित्तादर्शनयोग्यमपि तं न पश्यन्तीत्युत्तरमुच्यते उत्क्रामन्तमित्यादिना श्लोकेन तं ज्ञानचक्षुषः पश्यन्तीति विवृतं यतन्तोयोगिनइति श्लोकार्धन विमूढानानुपश्यन्तीत्येतहिवतं यतन्तोपीतिश्लोकाधेनेति पञ्चानां श्लोकानां संगतिः इदानीमक्षराणि व्याख्यास्यामः ममैव परमात्मनोऽशः निरंशस्यापि मायया 215152515235255252525 For Private and Personal Use Only