________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 15. // 159 // R5545052 | मायामय संसार वृक्षप्रवृत्तिः चिरंतन्यनादिरेपा प्रमृता निःसृतेन्द्र जालि कादिव माया हस्त्यादि तंपुरुष प्रपद्यइत्यन्वयः // 4 // परि-15 मार्गणपूर्वक वैष्णवं पदं गच्छनामङ्गान्तराण्याह मानोऽहङ्कारोगर्वः मोहस्त्वविवेकोविपर्ययोवा ताभ्यां निष्क्रान्तानिर्मानमोहाः तौ निर्गलो येभ्यस्लेवा तथा अहङ्काराधिवेकाभ्यां रहिताइति यावत् जितसङ्ग-दोषाः प्रियाप्रियसन्निधाबुपरि रागद्वेषवजिताइति यावत् अध्यात्मनित्याः परमात्मस्वरूपालोचनतत्पराः विनिवृत्तकामाः विशेषतोनिरवशेषेण निवृत्ताः कामाविषयभोगायेषां ते विवेक वैराग्य द्वारा त्यक्तसर्वकर्माणइत्यर्थः द्वन्द्वैः शीतोष्णक्षुत्पिपासादिभिः मुखदुःख संज्ञैः सुखदुःखहेतुत्वात् मुखदुःखनामकैः सुखदुः-- खलङ्गेरिति पाठान्नरे सुखदुःखान्यां सङ्गः संबन्धोयेषांतः सुखदुःख तद्वन्धमुताः परित्यक्ताः अमूढाः वेदान्तप्रमाणसंजातसम्यग्ज्ञाननिवारितात्मज्ञानाः अव्ययं यथोक्तं पदं गच्छन्ति तदेव गन्तव्यं पदं विशिनष्टि // 5 // यद्वैष्णवं पदं गत्वा योगिनिर्मानमोहाजितसङ्गन्दोपाअध्यात्मनित्याविनिवृत्तकामाः // बन्दैविमुक्ताः सुरखदुःखसंज्ञैगच्छन्त्यमूढाः पदमव्ययं तत् // 5 // न तद्भासयते सूर्योन शशाङ्कोन पावकः // यद्गत्वा न निवर्तन्ते तद्धाम परमं मम // 6 // नोन निवर्तन्ते तत्पदं सर्वावभासनशक्तिमानपि सूर्योन भासयते सूर्यास्तमयेपि चन्द्रोभासकोदृष्टहत्याशङ्कयाह न शशाङ्कः सूर्याचन्द्रमसोरुभयोरप्यस्तमयेग्निः प्रकाशकोदृष्टइत्याशयाह न पावकः भासयतइत्युभयत्राप्यनुषज्यते कुतः सूर्यादीनां नत्र प्रकाशसाममित्यतआह तद्धाम ज्योतिः स्वयंप्रकाशमादित्यादिसकलजडज्योतिरवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदं न हि योयद्भास्यः सस्वभावतं भासयितुमीष्टे तथा च अतिः 'न तत्र सूर्योभाति न चन्द्रतारकं नेमाविद्युतोभान्ति कुतोयमानः तमेवभान्तमनुभानि सर्व तस्य भासा सर्वमिदं विभातीति / एतेन तत्पदं वेद्यं न वा आये वेद्यभिन्नवेदितसापेक्षत्वेन द्वैतापत्तिदितीयेत्वपुरुषार्थत्वापत्तिरित्यपास्तं अवेद्यत्वे सत्यपि स्वयमपरोक्षत्वात् तत्रावेद्यत्वं सूर्याद्यभास्यत्वेनात्रोक्त सर्वभासकत्वेन तुस्वयमपरोक्षत्वं यदादित्यगतं तेजइत्यत्र वत्यति एवमुभाभ्यां श्लोकाभ्यां श्रुतेदैलइयं व्याख्यातमिति द्रष्टव्यम् // 6 // ननु यदत्वा न निर्वतन्तइत्ययुक्तं | Pent // 152 For Private and Personal Use Only