________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. च यस्य ससमदुःखसुखः कस्मादेवं यस्मात्स्वस्थः स्वस्मिन्नात्मन्येव स्थितोतदर्शनशून्यत्वात् अतएव समानि हेयोपादेयभावरहितानि लोष्ठाश्मकाञ्चनानि यस्य सनथा लोष्ठः पांसुपिण्डः अतएव तुल्ये प्रियाप्रिये सुखदुःख साधने यस्य हितसाधनवाहितसाधनत्वबुद्धिविषयत्वाभावेनोपेक्षणीयत्वात् धीरः धीमान् धृतिमान् वा अतएव तुल्ये निन्दात्मसंस्तुती दोषकीर्तनगुणकीर्तने यस्य सगुणातीतउच्यतइति द्वितीयगतेनान्धयः // 24 // मानः सत्कारः आदरापरपर्यायः अपमानास्तरस्कारोऽनादरापर पर्यायः तयोस्तुल्यः हर्षविपाइशून्यः निन्दास्तुती शब्दरूपे मानापमानौ तु शब्दमन्तरेणापि कायमनोव्यापारविशेषानिति भेदः अत्र पकारवकारयोः पाठविकल्पेयर्थः सएव तुल्योमित्रारिपक्षयोः मित्रपक्षस्येवारिपक्षस्यापि द्वेषाविषयः स्वयं तयोरनुयहनियह शुन्यइति समदुःखसुखः स्वस्थः समलोष्ठाश्मकाञ्चनः / / तुल्यप्रियाप्रियोधीरस्तुल्यनिन्दात्मसंस्तुतिः // 24 // मानापमानयोस्तुल्यस्तुल्योमित्रारिपक्षयोः // सर्वारम्भपरित्यागी गणातीतः सउच्यते // 25 // मां च योव्यभिचारेण भक्तियोगेन सेवते // सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते / / 26 // या मर्वारम्भपरित्यागी आरभ्यन्तहत्यारम्भाः कर्माणि तान् सर्वान् परित्यक्तुं शीलं यस्य सतथा देहयात्रामात्रव्यतिरेकेण सर्वकर्मपरि-17 त्यानीत्यर्थः उदासीन बदासीन इत्याशुक्तप्रकाराचारोगुणातीतः सउच्यते यदुक्कमपेक्षकत्वादि विद्योदयात्पूर्व यत्नसाध्यविद्याधि-- कारिणा साधनसेनानुष्टयमुत्पञ्चायां तु विद्यायां जीवन्मुक्कस्य गुणातीतस्योक्तं धर्मजात मयत्नसिद्धं लक्षणत्वेन तिष्ठतीत्यर्थः // 28 || अधुना कथमेतान गुणानरिवर्तने इति तृतीयपभस्य पनिवचनमाह च स्वर्थः मानेवेश्वरं नारायणं सर्वभूतान्नामिणं मायया क्षेत्रज्ञनामागतं परमानन्दघनं भगवन्तं वासुदेवमध्यभिचारेण परमप्रेमलक्षणेन भक्तियोगेन हादशाध्यायोकेन यासक्ते सदाचिन्तयति सपनकः एतान् प्रागुक्तान् गुणान् समतीत्य सम्यगरिक्रम्य देतदर्शनेन बाधित्वा ब्रहाभवाय ब्रह्मभवनाय मोक्षाय। // 156 For Private and Personal Use Only