________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पते समर्थोभवति सर्वदा भगवचिन्तनमेव गुणाततित्वोपायइत्यर्थः // 26 // अवहेतुमाह ब्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगत्पत्तिस्थितिलयहेतोः प्रतिष्ठा पारमार्थिक निर्विकल्पकं सचिदानन्दात्मक निरुपाधिकं तत्पदलक्ष्यमह निर्विकल्पकोवासुदेवः प्रतितिष्ठत्येवेति प्रतिष्ठाकाल्पतरूपरहितमकल्पितं अतोयोमामनपाधिकं ब्रह्म सेवते सब्रह्मभूयाय कल्पतइति युक्तमेव कीदृशस्य ब्रह्मणः प्रतिष्टाहमित्याक्षायां विशेषणानि अमृतस्य विनाशरहितस्य अव्ययस्य विपरिणामरहितस्य च शाश्वतस्यापक्षयरहितस्य च धर्मस्य ज्ञाननिहालक्षणधर्मप्राप्यस्य मुखस्य परमानन्दरूपस्य सुखस्य विषयोन्द्रियसंयोगज्ञत्वं वारयति ऐकांतिकस्याव्यभिचारिणः सर्वस्मिन्देशे काले च विद्यमानस्य ऐकान्तिकसुखरूपस्येत्यर्थः एतादृशस्य ब्रह्मणोयस्मादहं यास्तवस्वरूपं तस्मान्मद्भक्तः संसारान्मुच्यतइति भावः तथा चोक्तं ब्रह्मणा भगवन्तं श्रीकृष्णं प्रति 'एकस्त्वमात्मापुरुषः पुराणः सत्यः स्वयंज्योतिरनन्तआद्यः ब्रह्मणोहि प्रतिष्टाहममृतस्याव्ययस्यच॥शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७॥ 15252515251525152515255056-505251525 नित्यो क्षरोऽजस्रसुखोनिरंजनः पूर्णोऽझ्योमुक्तउपाधितोमृतइति सर्वोपाधिशून्यआत्मा ब्रह्म त्वमित्यर्थः शुकेनापि स्तुतिमन्तरेणैवोक्तं 'सर्वेषामेव वस्तूनां भावार्थोभवति स्थितः तस्यापि भगवान् कृष्णः किमतबस्तुरूप्यतामिति / सर्वेषामेव कार्यवस्तूनां भावार्थः सत्तारूप: परमार्थोभवति कार्याकारण जायमाने सोपाधिके ब्रह्मणि स्थितः कारणसत्तातिरिक्तायाः कार्यसत्तायाअनभ्युपगमात् तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणोभावार्थः सलारूपोर्थो भगवान कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात् कल्पितस्य चाधिष्ठानानतिरेकात् भगवतः कृष्णस्य च सर्वकल्पनाधिष्टानत्वेन परमार्थसत्यनिरुपाधिब्रह्मरूपत्वान् अतः किमतद्वस्तु तस्माच्छीकृष्णादन्यद्वस्तु पारमार्थिकं किं निरूप्यता तदेबैकं परमार्थिकं नान्यात्कमपत्यिर्थः तदेतादहाप्युक्तं ब्रह्मणोहि प्रतिष्ठाहामति अथवा त्वदतस्त्वदावमाप्नोतनाम कथं मु ब्रह्मभावावः कल्पते ब्रमणः सकाशासवान्यत्वादित्याशक्याह ब्रह्मणाहीति ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिरहमेव ननु मदिनं ब्रह्मेत्यर्थः तथाऽ For Private and Personal Use Only