________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 258585525 प्रणमृननुभवामीति दृढतरप्रत्यभिज्ञानात् अन्यनिष्टसंस्कारस्य चान्यत्रानुसन्धानाजनकत्वात् तथा तेनैव प्रकारेणाविकृतस्यैव सतआत्मनोदहान्तरप्राप्तिः एतस्माइहादत्यन्तविलक्षणदेहप्रानिः स्वमे योगैश्वर्येच तद्देहभेदानुसन्धानपि सएवाहमिति प्रत्यभिज्ञानात् तथाच यदि देहएवात्माभवेत्तदा कौमारादिभेदेन देहे भिद्यमाने प्रतिसन्धानं न स्यात् अथ तु कौमाराद्यवस्थानामत्यन्तवैलक्षण्येप्यवस्थावतोदेहस्य यावत्प्रत्यभिज्ञ वस्तुस्थितिरिति न्यायेनैक्यं ब्रूयात्तदापि स्वमयोगैश्वर्ययोदेहधर्मिभेदे प्रतिसन्धानं न स्यादित्युभयोदाहरणम् अतोमरुमरीचिकादावुदकादिबुहेरिव स्थूलोहमित्यादिबुद्धेरापि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वान् एतच्च न जायतइत्यादी प्रपंचयिष्यते एतेन देहाव्यतिरिक्तोदेहेन सहोत्पद्यते विनश्यति चेति पक्षोपि प्रत्युक्तः तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणोदेहस्य भेदे प्रत्यभिज्ञानपपत्तेः अथवा यथा कौमारायवस्थापामिरविक्रतस्यात्मनएकस्यैव तथा देहान्तरमाप्तिरेतस्मादेहादुकान्ती तत्र सपवाहमिति प्रत्यभिज्ञानाभावपि जातमात्रस्य हर्षशोकभयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्यायादर्शनात् अन्यथा स्तनपानादौ प्रवृत्तिर्न स्यात् तस्याइष्टसाधनता देहिनोस्मिन् यथा देहे कौमारं यौवनं जरा // तथा देहान्तरप्राप्ति/रस्तत्र न मुह्यति॥१३॥ | दिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् नथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः कृतयोः पुण्यपापयोभोगमन्तरेण नाशः कृतनाशः अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः अथवा दिहिनएकस्यैव तव यथाक्रमेण देहावस्थोत्पत्तिविनाशयोर्नभेदः नित्यत्वात् तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् मध्यमपरिमाणवे सावयवत्वेन नित्यत्वायोगात् अणुवे सकलदेहव्यापिसुखाद्यनुलब्धिप्रसङ्गात् विभुत्वे निश्चिते सर्वत्र दृट कार्यत्वात्सर्वशरीरेवेकएवात्मा त्वमिति निश्चितीर्थः तत्रैवंसति वध्यघातकभेदकल्पनया त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्ता एते मम वध्याइति भेददर्शनाभावात् तथा च विवादगोचरापन्नाः सर्वेदहाः एकभोक्तकाः देहत्वात्त्ववत् इति श्रुतिरपि एकोदेवः सर्वभूतेषु गृढः सर्वव्यापी सर्वभूतान्तरात्मेत्यादि एतेन यदाहुर्देहमात्रमात्मेति चार्वाकाः इन्द्रियाणि मनः प्राणश्चेति तदेकदेशिनः क्षणिकं विज्ञानमिति सौगताः देहातिरिक्तः स्थिरोदेहपरिमाणइति दिगम्बराः मध्यमपरिमाणस्य नित्यत्वानुपपत्तेः नित्योणरित्येकदेशिनः तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् नन्वात्म For Private and Personal Use Only