SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पि गुणावभिभूय उद्भवति यदा तदा स्वकार्य प्रागुक्तं करोतीत्यर्थः // 10 // इदानीमड़नानां तेषां लिङ्गान्याह त्रिभिः! अस्मिन्नात्मनोभोगायतने देहे सर्वेष्वपि द्वारेषु उपलब्धिसाधनेषु श्रोत्रादिकरणेषु यदा प्रकाशः बुद्धिपरिणामविशेषोविषयाकारः स्वविषयावरणविरोधी दीपवत् नदेव ज्ञानं शब्दादिविषयउपजायते तदाऽनेन शब्दादिविषयज्ञानाख्यप्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृमुद्धतमिति विद्यात् जानीयात् उत अपि सुखादिलिनेनापि जानीयादित्यर्थः // 11 // महति धनागमे जायमानेप्यनुक्षणं वर्धमानस्तदभिलाषोलोभः स्वविषयप्राप्त्यनिवर्त्यइच्छाविशेषइति यावत् प्रवृत्तिनिरन्तरं प्रयतमानता आरम्भः कर्मणां बहुवित्तव्यया रजस्तमश्चाभिभूय सत्त्वं भवति भारत // रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा // 10 // सर्वदारेषु देहेस्मिन्प्रकाशउपजायते // ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत // 11 // लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा // रजस्येतानि जायन्ते विवृद्धे भरतर्षभ // 12 // ARRRRRREERRRRRRRRRRR यासकराणां काम्यनिषिद्धलौकिकमहीगृहादिविषयाणां व्यापाराणामुद्यमः अशमः इदं कृत्वेदं करिष्यामीति सङ्कल्पप्रवाहानुपरमः स्पृहा उच्चावचेषु परधनेषु दृष्टमात्रेषु येनकेनाप्युपायेनोपादित्सा रजसि रागात्मके विवृद्धे एतानि रागात्मकानि लिङ्गानि जायन्ते हेभरतर्षभ एतैर्लिङ्गैर्विवृद्धं रजोजानीयादित्यर्थः // 12 // अप्रकाशः सत्यप्युपदेशादौ बोधकारणे सर्वथा बोधायोग्यत्वं अप्रवृत्तिश्च सत्यप्यग्निहोत्रं जुहुयादित्यादी प्रवृत्तिकारणे जनितबोधेऽपि शास्त्रे सर्वथा तत्प्रवृत्त्ययोग्यत्वं प्रमादस्तत्कालकर्तव्यत्वेन प्रामस्थार्थस्यानुसन्धानाभावः मोहएव च मोहोनिद्रावि पर्ययोवाचौ समुच्चये एवकारीव्यभिचारवारणार्थः तमस्येव विवृद्धे एतानि लिङ्गानि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy