________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१४ थेषु अहमिदं करोम्येतत् फल भोत्यइत्याभिनिवेशविशेषेण दोहनं वस्तुतोऽकर्तारमेव कर्तृत्वाभिमानिनं रजसः प्रवृत्तिहेतुत्वात् // 7 // तुशब्दः सत्वरजोपेक्षया विशेषयोतनार्थः अज्ञानादावरणशक्तिरूपातदुद्धतमज्ञानजं तमोविद्धिअतः सर्वेषां देहिनां मोहनं अविवेकरूपत्वेन भ्रान्तिजनकं प्रमादेनालस्येन निद्रया च तत्तमोनिबध्नाति देहिनमित्यनषज्यते हेभारत प्रमादोवस्तुविवेकासामर्थ्य सस्वकार्यप्रकाशविरोधी आलस्यं प्रवृत्त्यसामर्थ्य रजःकार्यप्रवृत्तिविरोधि उभयविरोधिनी तमोगुणालम्बना वृत्तिनिद्रेतिविवेकः॥ 8 // उक्तानां मध्ये कस्मिन्कार्ये कस्यगुणस्योत्कर्षइति तत्राह सत्त्वमुत्कृष्टं सत् सुखे सञ्जयति रजोरागात्मकं विद्धि तृष्णासङ्गासमुद्भवम् // तं निवनाति कौन्तेय कर्मसङ्गेन देहिनम् // 7 // तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् // प्रमादालस्यनिद्राभिस्तन्निवनाति भारत // 8 // सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत // ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत // 9 // दुःखकारणमभिभूय सुखे संश्लेषयति सर्वत्र देहिनमित्यनुषज्यते एवं रजउत्कृष्टं सत् सुखकारणमभिभूय कर्मणि सञ्जयतीत्यनुषज्यते तमस्त प्रमादबलेनोत्पद्यमानमपि सत्त्वकार्य ज्ञानमावत्य आच्छाद्य प्रमादे प्रामज्ञायमानता कस्याप्यज्ञाने सञ्जयति उतअपि प्रामकतव्यता कस्याप्यकरणे आलस्ये तामस्यांच निद्रायां सजयतीत्यर्थः // 9 // उक्त कार्य कदा कुर्वन्ति गुणाइत्युच्यते रजस्तमश्व युगपदुभावपि गुणात्रभिभूय सत्वं भवत्युद्भवति वर्धते यदा तदा स्वकार्य प्रागुक्तमसाधारण्येन करोतीति शेषः एवं रजोपि सत्त्वं तमति गुण इयमभिभूयोद्भवति यदा तदा मागुक्तं स्वकार्य करोति तथा तदेव तमोपि सत्त्वं रजत्युभाव // 153 For Private and Personal Use Only