SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir च्छन्ति ये केचात्महनोजनाइति / असुर्याः असुरस्य स्वभताः आसुर्याः संपदा भोग्याइत्यर्थः आत्महनइत्यनात्मन्यात्माभिमानिनइत्यर्थः || अतोयआत्मज्ञः सोनात्मन्यात्माभिमानं शुद्धात्मदर्शनेन बाधते अतः स्वरूपलाभान हिनस्त्यात्मनात्मानं ततोयाति परां| गति ततआत्महननाभावादविद्यातकार्यानि वात्तलक्षगां मुक्तिमाधेगच्छतीत्यर्थः // 28 // ननु शुभाशुभकर्मकारः प्रतिदेह [भिन्नाः आत्मानोविषमाच तत्तद्विचित्रफलभोक्तत्वेनेति कथं सर्वभूतस्थमेकमात्मानं समं पश्यन्न हिनस्त्यात्मनात्मानमित्युक्तमतआह कर्माणि वाङ्कनःकायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रियसंघाताकारपरिणतया सर्वविकारकारणभूतया त्रिगुणात्मिकया भगवन्माययैव क्रियमाणानि नतु पुरुषेण सर्वविकारशून्येन योविवेकी पश्याते एवं क्षेत्रेण क्रियमाणेष्वपि कर्मसु आत्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिषिवर्जितमसङ्गमेकं सर्वत्र समं यः पश्यति तथा शब्दः पश्यनीति क्रियाकर्षणार्थ : सपश्यति सपरमार्थदर्शीति पूर्ववत् सविका प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः // यः पश्यति तथात्मानमकतारं सपश्यति // 29 // यदा भूतपृथग्भावमकस्थमनुपश्यति // तत एव च विस्तारं ब्रह्म सं पद्यते // 30 // रस्य क्षेत्रस्य तत्तद्विचित्रकर्म कर्तत्वेन प्रतिदेहं भेदेषि वैषम्येपि न निर्षिशेषस्याकर्तुराकाशस्थेत्र न भेदे प्रमाणं किञ्चिदात्मनइत्युपपादित | प्राक् // 29 // तदेवमायातत्तत्क्षेत्रभेददर्शनमभ्यनुज्ञाय क्षेत्रज्ञभेददर्शनमपाकृतं इदानीं तु क्षेत्रभेददर्शनमपि मायिकत्वेनापाकरोति यदा यस्मिन्काले भूतानां स्थावरजङ्गमानां सर्वेषामपि जडवर्गाणां पृथग्भावं पृथक्त्वं परस्परभिन्नत्वं एकस्मिन्नेवात्मनि सदुपे स्थितं कल्पितं कल्पितस्याधिष्ठामादनातरेकात् सद्रूपात्मस्वरूपाइनतिरिक्त अनुपश्यति शास्त्राचार्योपदेशननुस्वयमालोच यात आत्मैवेदं सर्वमिति एवमपि मायावशात्ततएकस्मादात्मनएव विस्तारं भूतानां पृथग्भावं च स्वममायावदनुपश्यति ब्रह्म संपद्यते तदा सजातीयविजातीयभेददर्शनाभावान् ब्रह्मैव सर्वानर्थशून्यं भवति तस्भिकाले ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र कोमोहः कः शोकएकत्वमनुपश्यतइति / श्रुतेः प्रकृत्यैव चेत्यत्रात्मभेदोनिराकृतः यहा भूतपृथग्भावमित्यत्रत्वनात्मभेदोपीतिविशेषः // 30 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy