SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 149 // देहमेकं जन्मादिपरिणामशून्यतया च तिष्ठन्तमपरिणममानं परमेश्वर सर्वजडवर्गसत्तास्फनिप्रदत्वेन बाध्यबाधकभावशून्यं सर्वदोषानास्कन्दितं अविनश्यन्त इष्टनष्टप्रायसर्वईतवाघेन्यबाधितं एवं सर्वप्रकारेण जडप्रपञ्चविलक्षणमात्मानं विवेकेन यः शास्त्र वक्षुषा पश्यति सएव पश्यत्यात्मानं जायद्बोधेन स्त्रमभ्रमं बाधमानइव अज्ञस्तु स्वप्नदर्शीव भ्रान्त्या विपरीतं पश्यनपश्यत्येव अदर्शनात्मकत्वाश्रमस्य न हि रज्जु सर्पतया पश्यन् पश्यतीति व्यपदिश्यते रज्वदर्शनात्मकत्वात्सर्पदर्शनस्य एवं भूतान्यानुपरक्तशुद्धात्मदर्शनात्तददर्शनात्मिकायाअविद्यायानिवृत्तिस्ततस्तत्त्कार्यसंसारनिवृत्तिरित्यभिप्रायः अत्रात्मानमिति विशेष्यलाभोविशेषणमर्यादया परमेश्वरमित्येव वा विशेष्यपदं विषमत्वचञ्चलत्वबाध्यबाधकरूपत्वलक्षणं जडगतं वैधय समवतिष्ठत्वपरमेश्वरत्वरूपात्मविशेषणव पररररररर समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् // विश्यत्स्वविनश्यन्तं यः पश्यात सपश्यति // 27 // समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् // न हिनस्त्यात्मनाऽऽत्मानं ततोयाति परां गतिम् // 28 // शादर्थात्मानं अन्यकण्डोक्तमिति विवेकः // 27 // तदेतदात्मदर्शनं फलेन स्तौति रुच्युत्पत्तये समवस्थितं जन्मादिविनाशान्तर्भावविकारशून्यतया सम्यक्ततयाऽवस्थितमिति अविनाशित्वलाभः अन्यत्वाग्व्याख्यातं एवं पूर्वोक्तविशेषणमात्मानं पश्यन् अयमस्मीति शास्त्रदृष्टया साक्षात्कुर्वन् न हिनस्त्यात्मनाऽऽत्मानं सर्वोयज्ञः परमार्थसन्तमेकमकभोक्त परमानन्दरूपमात्मानमविद्यया सति भात्यपि वस्तुनि नास्ति न भातीति प्रतीतिजननसमर्थतया स्वयमेव तिरस्कर्वन्नसन्तमिव करोतीति हिनस्त्येव तं तथाऽविद्ययात्मबेन परिगृहीतं देहन्द्रियसंघातमात्मानं परातनं हित्वा न तमादत्ते कर्मवशादिति हिनस्त्येव तं अतउभयथाप्या-1 त्मैवेह सर्वो यज्ञः यमधिकृत्येयं शकुन्तलावचनरूपा स्मतिः किं तेन न कृतं पापं चोरेणात्मापहारिणा योन्यथासन्तमात्मानमन्यथा पतिपद्यनइति अनिश्च 'असुनाम ते लोकाअन्धेन तमसावृताः तां स्ते प्रेत्याभिग // 149 / For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy