SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं सर्वविकारसाक्षी तदुक्तं नर्तेस्यातिक्रिया दुःखी साक्षिता का विकारिणः धीविक्रिया सहस्राणां साक्ष्यतोहमविक्रिय इति। तेन विकारित्वमेव क्षेत्रचिन्हें नतु परिगणनमित्यर्थः // 6 // एवं क्षेत्र प्रतिपाद्य तत्साक्षिणं क्षेत्रमै क्षेत्रााईवेकेन विस्तरात्यतिपादयितुं तज्ज्ञानयोग्यत्वायामानित्वादिसाधनान्याह ज्ञेयं यत्तदित्यतः प्राक्तनैः पञ्चभिः विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनं मानित्वं लाभपूजाख्यात्यर्थं स्वधर्मप्रकटीकरणं दम्भित्वं कायवाङ्कनोभिः प्राणिनां पीडनं हिंसा तेषां वर्जनममानित्वमदम्भित्वमहिंसेत्युक्तं परापराधे चित्तविकारहेतौ प्राप्तेपि निर्विकारचित्ततया तदपराधसहनं क्षान्तिः आर्जवमकौटिल्यं यथा हृदयं व्यवहरणं परप्रतारणारा हित्यमिति यावन् आचार्योमोक्षसाधनस्योपदेष्टाऽत्रविवक्षितोन तु मनुक्त उपनीयाध्यापकः तस्य शुभ्रषानमस्कारादिप्रयोगेण सेवनानामा अमानित्वमदम्भित्वमहिंसाक्षांतिरार्जवम् // आचार्योपासनं शौचं स्थैर्यमात्मविनियहः // 7 // इन्द्रियार्थेषु वैराग्यमनहङ्कारएव च // जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् // 8 // 55055852515251525152515 |चार्योपासनं शौचं बाह्यकायमलानां मज्जलाभ्यां क्षालनमाभ्यन्तरंच मनोमलादीनां विषयदोषदर्शनरूपप्रतिपक्षभावनयापनयनं स्थैर्य मो क्षसाधने प्रवृत्तस्यानेकविधविनप्रानावपि तदपरित्यागेन पुनःपुनर्यनाधिक्यं आत्मविनियहः आत्मनोदेहेन्द्रियसंघातस्य स्वभावप्राप्तां मोक्ष| प्रतिकूले प्रवृत्ति निरुध्य मोक्षसाधनएव व्यवस्थापनम् // 7 // किंच इन्द्रियार्थेषु शब्दादिषु दृष्टेष्वानुभविकेषु वा भोगेषु रागविरोधिन्यस्पृहात्मिका चित्तवृत्तिर्वैराग्यं आत्मश्लाघनाभावेपि मनसि प्रादुर्भतोहं सर्वोत्कृष्टइति गर्वोऽहङ्कारस्तदभावोनहङ्कारः अयो| गव्यवच्छेदार्थएवकारः समुच्चयार्थश्वकारः तेनामानित्वादीनां विंशतिसयाकानां समुचितोयोगएव ज्ञानमिति प्रोक्तं न त्वेकस्याप्य भावइत्यर्थः जन्मनोगर्भवासयोनिद्वारानिस्सरणरूपस्य मृत्योः सर्वमर्मच्छेदनरूपस्य जरायाः प्रज्ञाशक्तितेजोनिरोधपरपरिभवादिरूपायाः For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy