________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूज्यते सध्यते किञ्चिद्व्यवधानेन प्रतिपाद्यतएभिरिति ब्रह्मसूत्राणि 'यतोवाइमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीत्यादीनि तटस्थलक्षणपराण्युपनिषदाच्यानि तथा पद्यते ब्रह्म साक्षात्प्रतिपाद्यतएभिरिति पदानि स्वरूपलक्षणपराणि 'सत्यं ज्ञानमनन्तं ब्रह्मत्यादीनि' तैर्ब्रह्मसूत्रैः पदैश्व हेनुमद्भिः सदेवसोम्येदमयआसीदेकमेवा-1 द्वितीयमित्युपक्रम्य नद्धकआहुरसदेवेदमग्रआसीदेकमेवाद्वितीयं तस्मादसतः सदजायतेति' नास्तिकमतमुपन्यस्य कुतस्तु खलुसोम्यैवं स्यादिति होवाच कथमसनः सदजायतेत्यादियुक्तीः प्रतिपादयद्भिः विनिश्चितैः उपक्रमोपसंहारैकवाक्यतया संदेहशून्यार्थप्रतिपादकैः बहुधा गीतं च एतेन ज्ञानकाण्डप्रतिपाद्यवमुक्त एवमेतैरतिविस्तरेणोक्तं क्षेत्रक्षेत्रज्ञयाथात्म्यं सतेपेण ऋपिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् // ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः // 4 // महा भूतान्यहङ्कारोबुद्धिरव्यक्तमेव च // इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः // 5 // नभ्यं कथयिष्यामि तन्युण्वित्यर्थः अथवा ब्रह्मसूत्राणि तानि पदानि चेति कर्मधारयः तत्र विद्यासूत्राणि आत्मेत्येवोपासीतेत्यादीनि अविद्यासूत्राणि न सवेद यथा पशुरित्यादीनि तैगतिमिति // 4 // एवं प्ररोचितायार्जुनाय क्षेत्रस्वरूपं तावदाह द्वाभ्यां महान्ति भतानि भुम्यादीनि पञ्च अहङ्कारस्नत्कारणभतोभिमानलक्षणः बुद्धिरहङ्कारकारणं महत्तवमध्यवसायलक्षणं अव्यक्तं तत्कारण सत्वरजस्तमोगणात्मकं प्रधानं सर्वकारणं न कस्यापि कार्य एवकारः प्रकृत्यवधारणार्थः एतावत्येवाष्टधा प्रकृतिः चशब्दोभेदसमुन्नयार्थः तदेवं |साइल्यमतेन व्याख्यातं औपनिषदानांत अव्यकमब्याकृतमनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिर्मम माया दुरत्ययेत्युकं बुद्धिः || सर्गादौ सविषयमीक्षणं अहङ्कारः ईक्षणानन्तरमहं बहुस्यामिति सङ्कल्पः ततआकाशादिक्रमेण पञ्चभूतोत्पत्तिरिति न ह्यव्यक्तमहदहङ्काराः For Private and Personal Use Only