SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . धनानि विदधौ भगवान् वासुदेवः कथेनुनाम सर्वप्रतिबन्धरहितः सनुत्तमाधिकारितया फलभूतायामकरघियायामवनरेदित्यभि| प्रायेण साधनविधानस्य फलार्थत्वात् तदुक्तं 'निर्विशेष परब्रह्म साक्षात्कर्तुमनीश्वराः येमन्दालेऽनुकम्प्यन्ते सविशेषनिरूपणैः वशीको मनस्येवां सगणब्रह्मशीलनात् तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनमिति' भगवता पतञ्जलिना चोक्तं 'समाधिसिद्धिरीश्वरप्रणिधानादिति' ततः प्रत्य चेतनाधिगमोप्यन्तरायाभावश्चेतिच: ततइतीश्वरप्रणिधानादित्यर्थः तदेवमक्षरोपासननिन्दा सगुणोपासनस्तुतये न तु हेयतया उदितहोमविधावनुदितहोमानिन्दावन् न हि निन्दा निन्द्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुमिनि न्यायात् तम्मादक्षरोपासकाएव परमार्थतोयोगवित्तमाः 'प्रियोहि ज्ञानिनोत्यर्थमहं सच मम प्रियः उदाराः सर्वएवैते ज्ञानी त्वात्मैव मे मतमित्यादिना पुनःपुनः प्रशस्ततमतयोक्तास्तेषामेव ज्ञानं धर्मजातं चानुसरणीयमधिकारमासाद्य त्वयेत्यर्जुन बुबोधयिषुः 3152515155152 अवेटा सर्वभूतानां मैत्रः करुणएव च // निर्ममोनिरहङ्कारः समदुःखसुखः क्षमी // 13 // सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः // मयपितलनोवुद्धिोमनतः समे प्रियः॥१४॥ परमहितैषी भगवानभेददर्शिनः कृतकृत्यानक्षरोपासकान्प्रस्तौति सनभिः सर्वाणि भूता न्यात्मत्वेन पश्यनात्मनोदुःखहेतावपि प्रतिकूल बुद्ध्यभावान हेष्टा सर्वभूतानां किंतु मैत्रः मैत्री शिग्धता तवान् यतः करुणः करुणा दुःखितेषु दया तद्वान् सर्वभूताभयदाता परमहंसपरित्राजकहत्यर्थः निर्ममादेहेऽपि ममेति प्रत्ययरहितः निरहङ्कारः वत्तस्वाध्यायादिकृताहहारानिकान्तः द्वेषरागयोरप्रवर्तकत्वेन सभे दुःखनुखे यस्य सः अतएव क्षमी आक्रोशनसाडनादिनापि न विक्रियामापद्यते // 13 // तस्यैव विशेषणान्तराणि सततं शरीरस्थितिकारणस्य लामेऽलाभे च संतुष्टः उत्पन्नालंपत्ययः तथा गणवल्लाभे विपर्यये च सततमिति सर्वत्र संबध्यते योगी समाहितचिन्तः यतात्मा संयतशरीन्द्रियादिसहानः दृढः कुतार्किकैरभिभवितुमशक्यतया स्थिरोनिश्चयोहमस्यकर्वभोक्तसचिदानन्दाद्वितीयं ब्रोत्यध्यवसायो-15, यस्य सदृढनिश्चयः स्थितप्रज्ञइत्यर्थः मयि भगवति वासुदेवे शुद्ध ब्रह्मणि अर्पितमनोबुद्धिः समर्पितान्तःकरणः ईदृशोयो 52552552 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy