SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः // पूर्वाध्यायान्ते 'मत्कर्म कृन्मत्परमोमद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यःसमामेति पाण्डवे-| त्युक्तं तत्र मरछदार्थे सन्देहः किं निराकारमेव सर्वस्वरूपं वस्तु मच्छन्देनोक्तं भगवता किं वा साकारमिति उभयत्रापि प्रयोगदर्शनात् ' बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते वासुदेवः समिति समहात्मा सुदुर्लभइत्यादी निराकारं वस्तु व्यपदिष्टं विश्वरूपदर्शनानन्तरंच 'नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्यएवंविधोद्रष्टुं दृष्टवानसि मां यथेति' साकारं वस्तु उभयोध भगवदुपदेशयोरधिकारिभेदेनैव व्यवस्थया भवितव्यं अन्यथा विरोधात् तत्रैवं सति मया ममक्षुणा किं निराकारमेव वस्तु चिन्तनीयं किंवा साकारमिति स्वाधिकारानिश्चयाय सगुणनिर्गुणविद्ययोर्विशेषबुभुत्सया एवं मत्कर्मकृदित्याद्यनन्तरोक्तप्रका रेण सततयुक्तानैरन्तर्येण भगवत्कर्मादौ सावधानतया प्रवृत्ताः भक्ताः साकारवस्त्वेकशरणाः सन्तस्त्वामेवंविधं साकारं ये // अर्जुनउवाच // एवं सततयुक्ताये भक्तास्त्वां पर्युपासते // ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः // 1 // |पर्युपासते सततं चिन्तयन्ति ये चापि सर्वतोविरक्तास्त्यक्तसर्वकर्माणोऽक्षरं न क्षरत्यश्रुते वेत्यक्षरं 'एतद्वै तदक्षरं गामि ब्रा ह्मणाअभिवदन्त्यस्थूलमनण्व-हस्वमदीर्घमित्यादि। श्रुतिप्रतिषिद्धसर्वोपाधिरहितं निर्गुणं ब्रह्म अतएवाव्यक्तं सर्वकारणगोचरं निराका|रं त्वां पर्युपासते तेषामुभयेषां मध्ये के योगवित्तमाः आशियेन योगविदः योगं समाधि विदन्तीति वा योगविदः उभयेऽपि | तेषां मध्ये के श्रेष्ठायोगिनः केषां ज्ञानं मयानुसरणीयामित्यर्थः // 1 // तत्र सर्वज्ञोभगवानर्जनस्य सगुणविद्यायामेवाधिकारं पश्यस्तं प्रति तां विधास्यति यथाधिकारं तारतम्योपेतानिच साधनानि अतःप्रथमं साकारब्रह्मविद्या प्रबोधायतुं स्तुवन् प्रथमाः श्रेष्टाइत्युत्तरं मयि भगवति वासुदेवे परमेश्वरे सगुणे ब्रह्मणि मनआवेश्यानन्यशरणतया निरतिशयप्रियतयाच प्रवेश्य हिङ्गलरङ्गइव जतु तन्मयं कृत्वा ये मां सर्वयोगेश्वराणामीश्वरं सर्वज्ञं समस्तकल्याणगुणनिलयं साकारं नित्ययुक्ताः सततो For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy