________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir / अनित्यभावेन निर्विकारेणच वचनरूपमसकरहसि स्थितोवा सिंहासनादि | यच्चावहासाथ परिहासार्थ विहारशय्यासन भोजनेषु विहारः क्रीडा व्यायामोवा शय्या नलिकाद्यास्तरणविशेषः आसनं सिंहासनादि / भोजनं बहूनां पड़त्तावशनं तेषु विषयभूतेषु असत्कृतोसि मया परिभूतोसि एकः सखीन्विहाय रहसि स्थितोबा त्वं अथवा तत्समक्षं तेषां सखीनां परिहसतां समक्षं वा हे अच्युत सर्वदा निर्विकार तत्सर्वं वचनरूपमसत्करणरूपं चापराधजातं क्षामये क्षमयामि त्वामप्रमेयं अचिन्त्यप्रभावं अचिन्त्यप्रभावेन निर्विकारेणच परमकारुणिकेन भगवता त्वन्माहात्म्यानभिज्ञ स्य ममापराधाः क्षन्तव्याइत्यर्थः // 42 // अचिन्त्यप्रभावतामेव प्रपञ्चयति अस्य चराचरस्य लोकस्य पिता जनक यञ्चावहसार्थमसत्कृतोऽसि विहारशय्यासनोजनेषु // एकोऽथवाप्यच्युत तत्समक्ष तत्क्षामयेत्वामहमप्रमेयम् // 42 // पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् // नत्वत्समोस्त्यभ्यधिकः कुतोन्योलोकत्रयेप्यप्रतिमप्रभावः // 13 // तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् // पितेव पुत्रस्य सखेव सख्युः प्रीयः प्रियायार्हसि देव सोढुम् // 4 // स्त्वमसि पूज्यवासि सर्वेश्वरत्वात् गुरुश्वासि शास्त्रोपदेष्टा अतः सः प्रकारैगरीयान् गुरुतरोसि अतएव न त्वत्समोस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽपि हे अमितप्रभाव यस्य समोपि नास्ति द्वितीयस्य परमेश्वरस्याभावात् तस्याधिकोऽन्यः कुतः | स्यात्सर्वथा न संभाव्यतएवेत्यर्थः // 43 // यस्मादेवं तस्मात्प्रणम्य नमस्कृत्य त्वां प्रणिधाय प्रकर्षेण नीचैधृत्वा कार्य | दण्डवद्भुमौ पतित्वेति यावत् प्रसादये त्वामीशमीड्यं सर्वस्तुत्यमहमपराधी अतोहेदेव पितेव पुत्रस्यापराधं सखेव सख्युप राधं प्रियः पतिरिव प्रियायाः पतिव्रतायाअपराध ममापराधं त्वं सोई क्षन्तुमर्हसि अनन्यशरणत्वान्मम प्रियायाहसीत्यत्रेवशशब्दलोपः सन्धिश्च छान्दसः // 44 // एवमपराधक्षमा प्रार्थ्य पुनः प्राग्रूपदर्शनं विश्वरूपोपसंहारेण प्रार्थयते द्वाभ्यां काप्यवृष्टपूर्व For Private and Personal Use Only