SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकोरक्षोन्नमन्त्रत्वेन मन्त्रशास्त्रे प्रसिद्धः // 36 // भगवतोहर्षादिविषयत्वे हेतुमाह कस्माच हेतोस्ते तुभ्यं न नमेरन नमस्कुर्यः सिद्ध-।। सङ्काः सर्वेऽपि हेमहात्मन् परमोदारचित्त हे अनन्त सर्वपरिच्छेदशून्य हेदेवेश हिरण्यगर्भादीनामपि देवानां नियन्तः हेजगन्निवास सश्रिय तुभ्यं कीदृशाय ब्रह्मणोपि गरीयसे गुरुतराय आदिकत्रे ब्रह्मणोऽपि जनकाय नियन्तृत्वमुपदेष्टत्वं जनकत्वमित्यादिरेकैकोऽपि हेतुनमस्कार्यताप्रयोजकः किं पुनर्महात्मत्वानन्तत्वजगनिवासत्वादिनानाकल्याणगुणसमुच्चितइत्यनाभर्यतासचनार्य नमस्कारस्य कस्माचिति वा शब्दार्थधकारः किंच सत् विधिमुखेन प्रतीयमानमस्तीति असनिषेधमुखेन प्रतीयमानं नास्तीति अथवा सत् व्यक्तं असत् अव्यक्तं त्वमेव तथा तत्पर ताभ्यां सदसपयां पर मूलकारणं यदक्षरं ब्रह्म तदपि त्वमेव त्वनिन किमपि नास्तीत्यर्थः तत्परं यदित्यत्र परररररररर कस्माच्च तेन नरमेरन्महात्मन् गरीयसे ब्रह्मणोप्यादिकत्रे // अनन्तदेवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् // 37 // त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं नि. धानम् // वेनासि वेद्यं च परञ्च धाम त्वया ततं विश्वमनन्तरूप // 38 // यच्छब्दात्माक चकारमपि केचित्पठन्ति एनै नुभिस्त्वां सर्वे नमन्तीति न किमपि चित्रमित्यर्थः // 37 // भक्त्युरेकात्पुनरपि स्तौति वमादिदेयोजगतः सर्गहेतुत्वात् पुरुषः पूरयिता पुराणोऽनादिः स्वमस्य विश्वस्य परं निधानं लयस्थानत्वान् निधीयते सर्वमस्मिनिति एवं सृष्टिप्रलयस्थानत्वेनोपादानवमुक्त्वा सर्वज्ञत्वेन प्रधानं व्यावर्त यानिमित्ततामाह वेदिता सर्वस्यापि दैतापत्तिं वारयति यच विद्यं तदपि त्वमेवासि वेदनरूपे वेदितरि परमार्थसंबन्धाभावेन सर्वस्य वेद्यस्य कल्पितत्वात् अतएव परंचधाम यत्सच्चिदानन्दधनमत्रिद्यातत्कार्यनिर्मुकं विष्णोः परमं पदं तदपि त्वमेवासि वया सद्रूपेण स्फुरणरूपेण च कारणेन ततं व्याप्तमिदं स्वतः सत्तास्फूर्तिशून्यं विश्व कार्य मायिकसंबन्धेनैव स्थितिकाले हेअनन्तरूप अपरिच्छिन्नस्वरूप // 38 // वायुर्यमोनिवरुणः शशाङ्गसूर्यादीना For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy