________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.न. अ.११. मि पूजावित्यत्रैवात्रापि समुदायान्वयानन्तरं प्रत्येकान्वयोद्रष्टव्यः॥ 34 // द्रोणभीष्मजयद्रथकर्णेषु जयाशाविषयेषु हतेषु निराश्रयो दुर्योधनोहतएवेत्यनुसंधाय जयाशां परित्यज्य यदि धृतराष्ट्रः साधं कुर्यात्तदा शान्तिरूभयेषां भवेदित्यभिप्रायवान् ततः किं वृत्तमित्यपेक्षायां एतत्पूर्वोकं केशवस्य वचनं श्रुत्वा कृताञ्जलिः किरीटी इन्द्रदत्तकिरीटः परमपरित्वेन प्रसिद्धः वेपमानः परमाश्चर्यदर्शनजनितेन संभ्रमेण कम्पमानोऽर्जुनः कृष्णं भक्ताघकर्षणं भगवन्तं नमस्कृत्य भूयः पुनरप्याह उक्तवान् सगद्गद भयेन हर्षेण चाश्रुपूर्णनेत्रत्वेसति कफरकण्डनया वाचोमन्दत्वसकम्पत्वादिर्विकारः सगद्गदस्तयुक्तं यथास्यात् भीतभीतः अतिशयेन भीतः सन् पूर्व नम // सञ्जयउवाच // एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी॥ नमस्कृत्वा भूयएवाह कृष्णं सगद्दं भीतभीतः प्रणम्य // 35 // अर्जुनउवाच // स्थाने हृषीकेश तव प्रकीर्त्यां जगत्प्रदृष्यत्यनुरज्यतेच // रक्षांसि भीतानि दिशोद्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गमः // 36 // स्कृत्य पुनरपि प्रणम्यात्यन्तनम्रोभूत्वाहेति सम्बन्धः // 38 // अर्जुन उवाच एकादशभिः स्थानेइत्यव्ययं युक्तमित्यर्थे हेत्वषीकेश सर्वेन्द्रियप्रवर्तक यतस्त्वमेवमत्यन्ताद्भुतप्रभावोभक्तवत्सलश्च ततस्तव प्रकीर्त्या प्रकृष्टया कीर्त्या निरतिशयप्राशस्त्यस्य कीर्तनेन अवणेन च न केवलमहमेव प्रत्दृष्यामि किंतु सर्वमेव जगचेतनमात्रं रक्षोविरोधि प्रत्दृष्यति प्रकृष्टं हर्षमामोति इति यत्तत् स्थाने युक्तमेवेत्यर्थः तथा सर्व जगदनुरज्यते च तद्विषयमनुरागमपैतीति च यत्तदपि युक्तमेव तथा रक्षांसि भीतानि सन्ति दिशोद्रवान्ति सर्वासु दिक्ष पलायन्तइति यत्तदपि युक्रमेव तथा सर्वे सिद्धानां कपिलादीनां सड्यनमस्यन्ति चेति यत्तदपि युक्तमेव सर्वत्र तव प्रकीयॆत्यस्यान्वयः स्थाने इत्यस्य च अयं // 133 For Private and Personal Use Only