________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |शत्रून् दुर्योधनादीन मुह स्वोपसर्जनत्वेन भोग्यता प्रापय समद्धं राज्यमकण्टक एते च तव शत्रवोमयैव कालात्मना निहताः संहतायुषः स्वदीययुद्धात्पूर्वमेव केवलं तव यशोलाभाय स्थान पातिताः अतस्त्वं निमित्तमात्र अर्जुनेनेते निर्जिताइति सार्वलौकिकव्यपदेशास्पदं भव हेसव्यसाचिन् सव्येन वामेन हस्तेनापि शरान् सचितुं संधान शीलं यस्य तादृशस्य तव भीष्मद्रोणादिजयोनासंभावितस्तस्मात्त्वब्यापारानन्तरं मया रथात्पात्यमानेष्वतेषु नवैव कर्तृत्वं लोकाः कल्पयिष्यन्तीत्यभिप्रायः // 33 // ननु द्रोणोब्राह्मणोत्तमोधनुर्वेदाचार्योमम | गुरुर्विशेषेण च दिव्याखसम्पन्नस्तथा भीष्मः स्वच्छन्दमयुर्दिव्यावसम्पन्नश्च परशुरामेण इन्हयुद्धमुपगम्यापि न पराजितस्तथा यस्य पिता वृद्धक्षत्रस्तपश्चरति मम पुत्रस्य शिरोयोभूमौ पातयिष्यति तस्यापि शिरस्तकालं भूमौ पतिष्यतीति सजयद्रथोपि जेतुमशक्यः स्व 88888888888 द्रोणं च भीष्मं च जयद्रथं च कर्ण तथाऽन्यानपि योधमुख्यान् // मया हतांस्त्वं जहि माव्यथिष्टायुध्यस्व जेतासि रणे सपत्नान् // 34 // 部队总队总队总队总队总队民 | यमपि महादेवाराधनपरोदिव्यास्वसम्पन्नश्च तथा कर्णोऽपि स्वयं सूर्यसमस्तदाराधनेन दिव्याखसम्पन्नश्च वासवदत्तया चैक पुरुषघातिन्याऽमोधीकर्तुमशक्यया शक्त्या विशिष्टस्तथा कृपाश्वत्थामभारिश्रवःप्रभृतयोमहानुभावाः सर्वथा दुर्जया एवैतेषु सत्सु कथं जित्वा शत्रून् राज्यं भोक्ष्ये कथं वा यशोलप्स्यइत्याशङ्कामर्जुनस्यापनेनुमाह तदाशङ्काविषयानामभिः |कथयन् द्रोणादींस्त्वदाशङ्काविषयीभूतान् सर्वानव योधरािन कालात्मना मया हतानेव वं जहि हतानां हनने कोवा परिश्रमः अतोमाव्यथिष्टाः कथमेवं शक्ष्यामीति व्यथा भयनिमित्तां पीडां मागाः भयं त्यक्त्वा युध्यस्व जेतासि जेष्यस्यचिरेगैव रणे संग्रामे सपन्नान् सर्वानपि शत्रून् अत्र द्रोणं च भीष्मं च जयद्रथं चेति चकारत्रयेण पूर्वोक्ताजेयत्वशङ्कानूयते तथा शब्देन | तस्मात् कुनोपि स्वस्य पराजय वधानमित्तं पापं च माशतिष्टाइत्यभिप्रायः कथं भीष्ममहं सच्चे द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्या | For Private and Personal Use Only