________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गा. म. // 118 // क्षयात्पतितेस्मिन् शरीरे विदेहकैवल्यरूपं मागुपैयास इदानीमपि सदूपःसन्तोपाधिनिवृत्त्या मायिकभेदव्यवहारविषयोन भविप्यसीत्यर्थः // 28 // यदि भकानेवानगण्हासि नाभक्तान ततोरागद्वेषवत्वेन कयं परमेश्वरः स्यादिति नेल्याह सर्वेषु प्राणिषु समस्तुल्याई सद्रूपेण स्फुरणरूपेणानन्दरूपेण च स्वाभाविकेनौपाधिकेन चान्नामेवेत अतोष मौषविषयः प्रीतिविषयोवा कधिदाल सावित्रस्येव गगनमण्डलव्यापिनः प्रकाशस्य तार्ह कयं भकाभक्तयोः फलषम्यं नत्राह ये भजन्ति तु येतु भजन्ति | सेवन्ते मां सर्वकर्मसमर्पणरूपया भक्त्या अभक्तापेक्षया भक्तानां विशेषद्योतनार्थस्तुशब्दः कोसी मयि ने ये मर्पितनिष्कामैः कर्मभिः शोधितान्तःकरणाते निरस्तसमस्तरजस्तमोमलस्य सचोद्रेकेगानिस्वच्छस्पान्तःकरणस्य सदा मदाकारां वृत्तिमुपनिषन्माननोत्पादयन्तोमयि वर्तन्ते अहमप्यतिस्वच्छायां तदीयचित्तवृतौ प्रतिविम्बितस्तेषु वर्तते चकारोऽवधा समोहं सर्वभूतेषु न मे देष्योस्ति न प्रियः // ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् // 29 // |रणार्थस्तएव मयि तेष्वेवाहमिति स्वच्छस्य हि द्रव्यस्यायमेव स्वभावोयेन संबध्यते तदाकारं गृण्हावीति स्वच्छ द्रव्यसंबद्धस्य च वस्तुनएपएव स्वभावोयत्तत्र प्रतिफलतीति तथा अस्वच्छद्रव्यस्याप्येषएव स्वभावोयत्स्वसंबद्धस्याप्याकार न गण्हातीति अस्वच्छद्रव्यसंबद्धस्य च वस्तुन एषएव स्वभावोयत्तत्र न प्रतिफलतीति यथा हि सर्वत्र विद्यमानोऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादावेवाभिव्यज्यते न वस्त्रच्छे घटादौ तावता न दर्पणे रज्यति न वा देटि घटे एवं सर्वत्र समाऽपि स्वच्छे भक्तचित्तेजमिव्यज्यमानोऽस्वच्छे चाभक्तचित्ते नाभिव्यज्यमानोऽहं न रज्यामि कुत्र चित् न वा द्वेष्मि कंचिन् सामयीमर्यादया जायमानस्य कार्य|स्यापर्यनुयोज्यत्वात् वन्हिवत्कल्पतरुवच्चावैषम्यं व्याख्येयम् // 29 // किं च मक्तेरेवायं महिमा यत्समेऽपि वैषम्यमापादयति श्रृणु त // 118 // For Private and Personal Use Only