________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 1. अ4 दितीयाध्यायः प्रारभ्यते || अहिंसा परमोधर्मोभिक्षाशनं चेत्येवंतक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमचनिनमवधार्य स्वस्थवृदयस्य धृतराष्ट्रस्य हर्षनिमित्तां ततः किंवृत्तमित्याकाङ्क्षामपनिनीषुः संजयः तंप्रत्युक्तवानित्याह वैशम्पायनः पा ममैत इति व्यामोहनिमित्तः स्नेहविशेषः तथा स्वभावसिड्या व्यानं अर्जुनस्य कर्मवं कृपायाश्च कर्तृत्वं वदता तस्याः 14. नुकत्वं ड्युतस्तं अतएव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तः शोकापरपर्यायश्चित्सव्याकुलीभावोविषादस्तं प्रामुवन्तं विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन तस्यागन्तुकत्वं सचितं अतएव कृपाविषादवशादश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य एवमभुपातव्याकुलीभावाख्यकार्यइयजनकतया परिपोषं गताभ्यां कृपाविषादाभ्यामुहिनं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाण क्यमुवाच नतूपेक्षितवान् मुधुसूदनइति स्वयं दुष्टनिग्रहकर्तार्जुनंप्रत्यपि तथैव वक्ष्यतीतिभावः // 1 // तदेवभगवतोवाक्यमवतारयति // संजयउवाच // तं तथा रूपयाविष्टमश्रुपूर्णाकुलेक्षणम्॥विषीदन्तमिदं वाक्यमुवाच मधुसूदनः // 1 // श्रीभगवानुवाच // कुतस्त्वाकश्मलमिदं विषमे समुपस्थितम् // अनार्यजु टमस्वयंमकीर्तिकरमर्जुन // 2 // अभिगवानुवाच ऐश्वर्यस्य समयस्य धर्मस्य यशसः श्रियः वैराग्यस्याय मोक्षस्य पण्णां भगइतीङ्गना समग्रस्येति प्रत्येकं संबन्धः मोक्षस्येति तत्साधनस्य ज्ञानस्य इङ्गना संज्ञा एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते सभगवान् नित्ययोगे मतुप तथा उत्पत्तिच विनाशंच भूतानामागतिं गतिं वेत्ति विद्यामविद्यांच सवाच्यो भगवानिति तत्र भूतानामिति प्रत्येकं संबध्यते उत्पत्तिविनाशशद्वी तत्कारणस्याप्युपलक्षको आगतिगती आगामिन्यौ सम्पदापड़ी एतादृशोभगवच्छदार्थः श्रीवासुदेवएव पर्यवसितइति तथोच्यते इदं स्वधर्मात्पराङ्मुखवं कृपाव्यामोहाश्रुपातादिपुरःसरं कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे सभये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थित प्राप्त किंमोक्षेच्छातः किंवास्वर्गेच्छातः अथवा कीर्तीच्छातः इति किंशद्वेनाक्षिप्यते हेतुत्रयमपि निषेधति विभिविशेषणैरुत्तरार्धन आयुर्मुमुक्षुभिर्नजुष्टमसेवितं स्वधमैराशयशुद्धिवारा मोक्षमिच्छद्भिरपक्ककषायैर्मुमुक्षुभिः कथं | For Private and Personal Use Only