________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | सतइत्याह अन्ये पूर्वोक्तसाधनानुष्टानासमर्थाः ज्ञानयज्ञेन त्वं वा अहमस्मि भगवोदेवते अहं वै त्वमसीत्यादिश्रुत्युक्तमहंग्रहोपासनं ज्ञानं सएव परमेश्वरयजनरूपत्वाद्यज्ञस्तेन चकारएवार्थे अपिशब्दः साधनान्तरत्यागार्थः केचित्साधनान्तरनिस्पृहाः सन्त उपास्योपा-1 सकाभेदचिन्तारूपेण ज्ञान यज्ञेनैकत्वेन भेदव्यावत्या मामेवोपासते चिन्तयन्त्युत्तमाः अन्यत् केचिन्मध्यमाः पृथक्वेनोपास्योपासक योर्भेदेनादित्योब्रह्मेत्यादेशइत्यादिश्रुत्युक्तेन प्रतीकोपासनरूपेण ज्ञानयज्ञेन मामेवोपासते अन्येत्वहंग्रहोपासने प्रतीकोपासने चासमर्थाः कोचिन्मन्दाः कांचिदन्यां देवतां चोपासीनाः कानिचित्कर्माणि चाकुर्वाणाबहुधा तैस्तेर्बहुभिः प्रकारैविश्वरूपं सर्वात्मानं मामेवोपासते तेनतेन ज्ञानयज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्वपूर्वभूमिलाभः // 18 // यदि बहुधोपासते नहि कथं त्वामेवेत्याशङ्ग्यात्मनोविश्वरूपत्वं 52515255252515251525250 ज्ञानयज्ञेन चाप्यन्ये यजन्तोमामुपासते // एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् // 15 // अहं कतुरहं यज्ञः स्वधाहमहमौषधम् // मन्त्रोहमहमेवाज्यमहमग्निरहं हुतम् // 16 // ร์รีธรรมราะระะะะะะะะะะะะ / प्रपञ्चयति चतुर्भिः सर्वस्वरूपोहमिति वक्तव्ये तत्तदेकदेशकथनमवयत्यानुवादेन वैश्वानरे द्वादशकपालेऽष्टाकपालत्वादिकथनवत् क्रतुः औतोमिष्टोमादिः यज्ञः स्माविश्वदेवादिः महायज्ञत्वेन श्रुतिस्मृतिप्रसिद्धः स्वधान्नं पितभ्योदीयमानं औषधं ओषधिप्रभवमन्नं सर्वेः प्राणिभिर्भज्यमानं भेषजं वा मन्त्रीयाज्यापरोनवाझ्यादिये नोद्दिश्यहावर्दीयते देवेभ्यः आज्यं घतं सर्वहविरुपलक्षणमिदं अग्निराहवनीयादिः | हविः प्रक्षेपाधिकरण हुतं हवनं हविः प्रक्षेपः एतत्सर्वमहं परमेश्वरएव एतदेकैकज्ञानमा भगवदुपासनमिति कथयितुं प्रत्येकमहंशब्दः क्रियाकारकफलजातं किमपि भगवदनिरिक्तं नास्तीति समुदायार्थः // 16 // किंच अस्य जगतः सर्वस्य प्राणिजातस्य पिता जनायिता माता जनयित्री धाता पोषयिता तत्तत्कर्मफलाविधाता वा पितामहः पितुः For Private and Personal Use Only