________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 114 // 'श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवन अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदन मिति' वन्दनसहचरितं श्रवणाद्यपि बोद्धव्यं अर्चनं पादसेवनमित्यपि गुरुरूपे तास्मन् सुकरमेव अत्र मामिति पुनर्वचनं सगुणरूपपरामर्शाथ अन्यथा वैयर्थ्यप्रसङ्गात् नथा भक्त्या मद्विषयेण परेण प्रेरणा नित्ययुक्ताः सर्वदा संयुक्ताः एतेन सर्वसाधनपोकल्यं प्रतिबन्धकाभावश्च दार्शतः 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ तस्यैते कथितार्थाः प्रकाशन्ते महात्मन इति' श्रुतेः पनजलिना चोकं ततः प्रत्यक्चेननाधिगमोप्यन्तरायाभावश्चेति। ततईश्वरप्रणिधानात्प्रत्यक्चेतनस्य त्वंपदलल्यस्याधिगमः साक्षात्कारोभवति अन्तरायाणां विघ्नानां चाभावोभवतीति' सूत्रस्यार्थः तदेवं शमदमादिसाधनसम्पन्नावेदान्तश्रवणमननपरायणाः परमेश्वरे परमगुरौ प्रेम्णा नमस्कारादिना च विगतविघ्नाः परिपूर्णसर्वसाधनाः 52952525525450525852525252525 सततं कीर्तयन्तोमा यतन्तश्च दृढव्रताः // नमस्यन्तश्च मां भक्त्या नित्ययुक्ताउपासते // 11 // सन्तोमामुपासते विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननात्तरभाविना सन्ततं चिन्तयन्ति महात्मानः अनने निदिध्यासनं चरमसाधनं दर्शितं एतादृशसाधनपोकल्येसति यद्देदान्तवाक्यजमखण्डगोचरं साक्षात्काररूपमहं ब्रह्मास्मीति ज्ञानं सत्स शाकलकास्पष्ट सर्वसाधनफलमतं स्वोत्पत्तिमात्रेण दीपइव तमः सकलमज्ञान तत्कार्य च नाशयतीति निरपेक्षमेव | |साक्षान्मोक्षहेतुर्न तु भूमिजयक्रमेण भ्रमध्ये प्राणप्रवेशनं मूर्धन्यया नाड्या प्राणोत्क्रमणचिरादिमार्गेण ब्रह्मलोकगमनं तद्भोगान्तकालविलम्ब वा प्रतीक्ष्यते अतोयत्यापतिज्ञातं इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानमिति तदेतदुक्तं फलंञ्चास्या शुभान्मोक्षणं प्रागुक्तमेवेतीह पुनर्नोक्तं एवमत्रायं गम्भीरोभगवतोऽभिप्रायः उत्तानार्थस्तु प्रकटएव // 14 // इदानीं यएवमुक्तश्रवणमनननिदिध्यासनासमर्थास्तेपि त्रिविधाउत्तमामध्यमामन्दावेति सर्वेऽपि स्वानुरूप्येण मामुपा For Private and Personal Use Only