SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 112 // असंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेनाह यथैवाऽसङ्गस्वभावे आकाशे स्थितोनित्यं सर्वदा उत्पत्तिस्थितिसंहारकालेषु वातीति वायुः सर्वदा चलनस्वभावः अतएव सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः एतादृशोपि न कदाप्याकाशेन सह संसृज्यते नथैवाऽसङ्गस्वभावे मयि संश्लेषमन्तरेणैव सर्वाणि भूतान्याकाशादीनि महान्ति सर्वत्रगानि च स्थितानीत्युपधारय विमृश्यावधारय // 6 // एवमुत्पत्तिकाले स्थितिकाले च कल्पितेन प्रपञ्चेनाऽसङ्गस्यात्मनोसंश्लेषमुक्त्वा प्रलयेऽपि तमाह सर्वाणि भूतानि कल्पक्षये प्रलयकाले मामिकां मच्छ[क्तित्वेन कल्पितां प्रकृति त्रिगुणात्मिकां मायां स्वकारणभतां यान्ति तत्रैव सूक्ष्मरूपेण लीयन्तहत्यर्थः हेकौन्तेयेत्युक्तार्थ पनस्तानि कल्पादौ सर्गकाले विसृजामि प्रकृतावविभागापन्नानि विभागेन व्यनज्मि अदं सर्वज्ञः सर्वशक्तिरीश्वरः // 7 // किंनिमित्ता परमेश्वरयथाऽऽकाशस्थितोनित्यं वायुः सर्वत्रगोमहान् // तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय // 6 // सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् // कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् // 7 // प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः // भूतग्राम मिमं कत्स्नमवशं प्रकृतेर्वशात् // 8 // स्येय सृष्टिर्न तावत्स्वभोगार्था तस्य सर्वसाक्षिभूतचैतन्यमात्रस्य भोक्तृत्वाभावात्तथात्वे वा संसारित्वेनेश्वरत्वब्याघातात् नाप्यन्योभोक्ता यथैर्य सृष्टिः चेतनान्तराभावात् ईश्वरस्यैव सर्वत्र जीवरूपेण स्थितत्वात् अचेतनस्य चाभोक्तृत्वात् | अतएव नापवर्गार्थापि सृष्टिः बन्धाभावादपवर्गाविरोधित्वाचेत्यायनपपत्तिः सृष्टेर्मायामयवं साधयन्ती नास्माकं पतिकुलेति न परिहर्तव्येत्यभिप्रेत्य मायामयत्वान्मिथ्यात्वं प्रपञ्चस्य वक्तुमारभते त्रिभिः प्रकृति मायाख्यामनिर्वचनीयां स्वां स्वस्मिन् कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां दृढीकृत्य तस्याः प्रकृतेर्मायायावशादविद्याऽस्मितारागद्देषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं सर्वप्रमाणसावधापितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनःपुनर्विसृजामि विविधं सृजामि कल्पनामात्रेण स्वमगिव च स्वमप्रपञ्चम् ||8|| अतः नच नैव सृष्टिस्थितिप्रलयाख्यानि तानि मायाविनेव स्वमदृशेव च मया क्रियमाणा // 112 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy