SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir हाभ्यां इदं जगत्सर्व भूतभौतिकतत्कारणरूपं दृश्यजातं मदज्ञानकल्पितं मयाधिष्ठानन परमार्थसत्तासदुपेण स्फुरणरूपेण च ततं व्यानं रज्जुखण्डेनेव तदज्ञानकल्पितं सर्पधारादि त्वया वासुदेवेन परिच्छिन्नेन सर्व जगत् कथं ब्याप्न प्रत्यक्षविरोधादिति नेत्याह अव्यक्ता सर्वकरणागोचरीभूना स्वप्रकाशाइयचैतन्यसदानन्दरूपा मर्तिर्यस्य तेन मया व्यानमिदं सर्वं न वनेन देहेनेत्यर्थः अतएव सन्तीव स्फुरन्तीव मपेण स्थितानि मत्स्थानि सर्वभूतानि स्थावराणि जङ्गमानि च परमार्थतस्तु न चैवाहं तेषु कल्पितेषु भूतेष्ववस्थितः कल्पिताकल्पितयोः संचन्धायोगात् अतएवोक्तं यत्र यदध्यस्तं तत्कृतेन गुणेन दोषेण वाऽणुमावेणापि न संवध्यतइति // 4 // अतएव मया ततमिदं सर्व जगदव्यक्तमूर्तिना // मत्स्थानि सर्वभूतानि न चाहं तेष्वव स्थितः // 4 // न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् // भूतभृन्न च भूतस्थोममात्मा भूतभावनः // 5 // | दिविष्ठइबादित्ये कल्पितानि जलचलनादीनि मयि कल्पित्तानि भूतानि परमार्थतोमाय म सन्ति त्वमर्जुनः प्राकृतीं|| मनुष्यबुदि हित्वा पश्य पर्यालोचय मे योगं प्रभावमैश्वरं अघटनघटनाचातुर्य मायाविनहव ममावलोकयेत्यर्थः नाह | कस्यचिदाधेयोनापि कस्यचिदाधारस्तथाप्यहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया यतोभूतानि सर्वाणि कार्याण्युपादानतया बिभर्ति धारयति घोषयतीति च भूतभृत् भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूतभावनः एवमभिन्नानिमित्तोपादानभूतोपि ममात्मा मम परमार्थस्वरूपभूतः सच्चिदानन्दघनोऽसङ्गाहितीयस्वरूपत्वान्न भूतस्थः परमार्थतोन भूतसंबन्धी स्वाबूगिव न परमार्थतः स्वकलितसंबन्धीत्यर्थः ममात्मेति राहोःशिरहतिवकल्पनया षष्टी // 5 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy