SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org च पृथिवी चाग्तरिक्षमयोस्वरिति श्रुनेः 'समाननामरूपत्वावृत्तावविरोधीदर्शनात् स्मृतेश्चेति' न्यायाच अवशइत्यविद्याकामकर्मादिपरतन्त्रः हेपार्थ स्पष्टमितरत् // 19 // एवमवशानामुत्पतिविनाशप्रदर्शनेनाब्रह्मभुवनाल्लोकाः पुनरावर्तिनइत्येतायाख्यातं अधुना मामुपेत्य पुनर्जन्म न विद्यतइत्येताचाचष्टे द्वाभ्यां तस्माचराचरस्थूलप्रपनकारणभूताद्धिरण्यगर्भा| ख्यादव्य कापराव्यतिरिक्तः श्रेोवा तस्यापि कारणभूतः व्यतिरेकेपि सालक्षण्यं स्यादिति नेत्याह अन्योऽत्यन्तषिलक्षणः 'न तस्य प्रतिमा अस्तीति। श्रुतेः अव्य कोरूपादिहीनतया पाराद्यगोचरोभावः कल्पितेषु सर्वेषु कार्येषु सदूपेणानुगतः अतएव सनातनोनित्यः तुझदोहेवादनित्यादव्य कादुपादेयत्वं विस्वस्याव्य तस्य वैलक्षण्य सूचयति एतादशोयोभावः साहिरण्यगर्भश्व सर्वेषु भूनेषु परस्तस्मानु भावोऽन्योऽव्यक्तोऽन्यतात्सनातनः // यः ससर्वेयु भूतेपु नश्यत्सु न विनश्यति // 20 // अव्यक्ताक्षरइत्युक्तस्तमाहुः परमां गतिम् // यं प्राप्य न निवर्तन्ते तद्वाम परमं मम // 21 // नश्यत्स्वपि म विनश्यति उत्पद्यमानेष्वपि नोत्पद्यतइत्यर्थः हिरण्यगर्भस्था कार्यस्य भूताभिमानित्वात्तदुत्पत्तिविनाशाभ्यां युक्ताये वोत्पत्चिविनाशौ नतु तदनभिमानिनोकार्यस्य परमेश्वरस्येति भावः // 20 // योभावइहाव्यक्तइत्यक्षरइति चोक्तेऽन्यत्रापि श्रुतिः स्मतिषु च तं भावमाहुः श्रुतयः स्मतयश्व 'पुरुषानपरं किञ्चित्सा काष्ठा सापरागतिरित्याद्याः' परमामुत्पतिविनाशशून्यस्वप्रकाशपरमानन्दरूपां गतिं पुरुर्षार्थविश्रान्ति यं भावं प्राप्य न पुनः निवर्तन्ते संसाराय तद्धाम स्वरूप मम विष्णोः परम सर्वोत्कृष्ट मम धामेति राहोः शिरइतिवद्भेदकल्पनया षष्ठी अतोहमेव परमागतिरित्यर्थः // 21 // इदानीमनन्यचेताः सततं योमा स्मरति नित्यशः तस्याहं सुलभइति प्रागुक्तं भक्तिरसेगमेव तत्प्राप्युपायमाह सपरोनिरतिशयः पुरुषः परमात्माहमेव अनन्यथा न विद्य For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy