________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. त्यइतिश्रुतेः' याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशमनुध्यावन् // 8 // पुनरपि तमेवानुचिन्तयितव्यं गन्तव्यं च पुरषं विशिनाष्टि कविं क्रान्तदर्शिनं तेनातीतानागताद्यशेषवस्तुदर्शित्वेन सर्वशं पुराणं चिरन्तनं सर्वकारणत्वादनादिमिति यावत् अनुशासितारं सर्वस्य जगतोनियन्तारं अणोरणीयांसं सूक्ष्मादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात् सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभ्योविभतारं 'फलमतउपपत्तरित न्यायात् / न चिन्तयितुं शक्यमपरिमितमहित्वेन रूपं यस्य तं आदित्यस्येव सकलजगदवभासकोवर्णः प्रकाशीयस्य तं सर्वस्य जगतोऽवभासकमिाते यावन् अतएव तमसः परस्तात् तमसोमोहान्धकारादज्ञानलक्षणात्परस्तान् प्रकाशरूपत्वेन नमोविरोधिनमिति यावत् अनुस्मरेचिन्तयेद्यः कश्चिदपि सतं यातीति पूर्वेणैव संबन्धः सतं परं पुरुषमुपैति दिध्यमिति परेण वा सं कवि पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः // सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात् // 9 // प्रयाणकाले मनसा चलेन भक्त्या युक्तोयोगवलेन चैव // भ्रुवोर्मध्ये प्राणमाघेश्य सम्यक् सतं परं पुरुषमुपैति विष्यम् // 10 // "99ววังวาระรวัวร์55555 बन्धः // 9 // कदा नदाऽनुस्मरणे प्रयत्नातिरेकोभ्यस्यते तदाह प्रवाणकाले अन्तकाले अचलेन एकाग्रेण मनसा तं पुरषं योऽनुस्मरोदित्यनुवर्तते कीदृशः भक्त्या परमेश्वराविषयेण परमेण प्रेम्णा युक्तीयोगस्य समाधेवलेन तज्जनिनसंस्कारसमहेन व्युत्त्थानसंस्कारविरोधिना च युक्तएव प्रथम त्वृदयपुण्डरीके वशीकृत्य ततऊर्ध्वगामिन्या सुषुम्नया नाडया गुरूपदिष्टमार्गेण भूमिजयक्रमेण भ्रुवोमध्ये आज्ञाचक्रे प्राणमावेश्य स्थापयित्वा सभ्यगप्रमत्तोब्रह्मरन्ध्रादुत्क्रम्य सएवमुपासकस्तं कविं पुराणमनुशासितारमित्यादिलक्षणं परं पुरुष दिव्यं द्योतनात्मकमुपैति प्रतिपद्यते // 10 // इदानी येनकेनचिदभिधानेन ध्यानकाले भगवदनुस्मरणे प्राप्ते सर्वैवेदायत्पदमामनन्ति तपांसि सर्वाणि च यदन्ति यदिच्छन्तोब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण धीमीत्येतदिल्यादिश्रुतिप्रतिपादितत्वेन प्रणवनवाभिधानेन तदनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुमुपक्रमते यदक्षरमविनाशि ओद्वाराख्यं ब्रह्म वेदविदोवदन्ति 'एतदै तदक्षरं गार्गि ब्राह्मणाआभिवद // 105 For Private and Personal Use Only