________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नावादनर्थसम्भवाच परहिंसा नकर्तव्येति नच श्रेयोनुपश्यामीत्यारभ्योक्तं नदुपसंहरति अदृष्टफलाभावोनर्थसम्भवच तच्छब्देन पराते दृष्टसुखाभावमाह स्वजनहीति माधवेति लक्ष्मीपतित्वानालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीतिभावः // 37|| कथर्हि परेषां कुलक्षये ननहिंसायांच प्रवृत्तिस्तत्राह लोभोपहतबुद्धित्वात्तेषांकुलक्षयादिनिमित्तदोषप्रतिसन्धानाभावात्प्रवृत्तिः संभवतीत्यर्थः अतएव भीष्मादीनां "टानां बन्धुवधे प्रवृत्तवाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तं हेतुदर्शनाच्चतिन्यायात् तत्रहि लोभादिहेतुद ने वेदमूलत्वं नकल्प्यतइतिस्थापितं यद्यप्यते नपश्यान्ति तथापि कथमस्माभिर्नज्ञेयमित्युत्तरश्लोकेन सम्बन्धः॥३८॥ननु यद्यप्येते लोभापवृत्तास्तथापि आहूतोन निवर्तेत यूनादपि रणादपीति विजिनं क्षत्रियस्येत्यादिभिः क्षत्रियस्य युद्धं धर्मोयुद्धाजितंच धयं धनमिति शास्त्रे तस्मान्नावियं हन्तुं धार्तराष्ट्रान् स्ववान्धवान् // स्वजनं हि कथं हत्वा सुखिनः स्याम माधव // 37 // यद्यप्येते नपश्यन्ति लोभोपहतचेतसः॥ कुलक्षयरुतं दोषं मित्रद्रोहेच पातकम् // 38 // कथं नज्ञेयमस्माभिः पापादस्म कुलक्षयरुतं दोषं प्रपश्यद्भिर्जनार्दन // 39 // कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः // धर्मे नष्टे कुलं कृत्स्न मधर्माभिभवत्युत // 40 // निश्चयाद्भवतांच तैराहूनत्वायुद्धे प्रवृत्तिरुचिरैवेतिशङ्कयाह अस्मात्पापाद्वन्धुवधफलकयुद्धपात् अयमर्थः श्रेयःसाधनताज्ञानंहि प्रवर्तकं है श्रेयश्च तद्यदश्रेयोननुबन्धि अन्यथा श्येनादीनामपि धर्मत्वापत्तेः तथा चोक्तं फलतोपि च यत्कर्म नानर्थनानुबध्यते केवलप्रीतिहे. तुत्वात्तद्धर्मइतिकथ्यते इति ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेपि श्येनादाविवास्मिन्युऽपि नास्माकं प्रवृत्तिरचितेति // 39 // एवंच विजयादीनामश्रेयस्त्वेनानाकाङ्कितत्वान्न तदर्थं प्रवर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह सनातनाः परंपराप्राप्ताः कुलधर्माः कुलोचिताः धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात् उत अपि आग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्म नष्टे आत्यभिप्रायमेकवचनं अवशिष्टं बालादिरूपं कृत्स्नमपि कुलमधर्मोभिभवति स्वाधीनतया व्यामोति उतशब्दः कृत्स्नपदेन संबध्यते // 4 // 1996161641thk5the For Private and Personal Use Only