________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मी.म. येषामर्थे राज्यायपेक्षितं तेत्र नागताइल्याशङ्कच तान्विशिनष्टि स्पष्ट॥३४॥मनु यादि कृपया त्वमेतावहसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्स्येव अतस्त्वमेवतान्हला राज्य मुझेत्यतआह त्रैलोक्यराज्यस्यापिहेतोः तत्याप्त्यर्थमपि अस्मान् नतोप्येतान हन्तुमिच्छामि इच्छामपि नकुर्यामहं किंपुनर्हन्यां महीमात्रप्राप्तयेतु नहन्यामिति किमुवक्तव्यमित्यर्थः मधुसूदनेति सम्बोधयन् वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति // 30 // नन्वन्यान्विहाय धार्तराष्ट्राएव हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तदुःखदातृणां वधे प्रीतिसम्भवादित्यतआहे धार्तराष्ट्रान् दुर्योधनादीन् भ्रातृन्निहत्य स्थितानामस्माकं का प्रीतिः स्यात् नकापीत्यर्थः नहि मूढजनोचितक्षणमात्रवार्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्वन्धुवंधोस्माकं युक्तइतिभावः जनार्दनतिसम्बोधनेन यदि वध्याएते तर्हि त्वमेवैतान जहि प्रलये सर्वजनहिंसकत्वेपि सर्वपापाऽसंसर्गित्वादिति सूचयति ननु आमिदोगरतश्चैव शखपाणिर्धनापहः क्षेत्रदारहरचैव . षडेने यातनायिनः इतिस्मृतरेतेषांच सैर्वप्रकार आचार्याः पितरः पुत्रास्तथैवच पितामहाः // मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिन नस्तथा // 34 // एतान्न हन्तुमिछामि नतोपि मधुसूदन // अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकते // 35 // निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन // पापमेवाश्रये दस्मान् हत्वैतानाततायिनः॥३६॥ राततायित्वात् आततायिनमायानं हन्यादेवाविवारयन् नाततायिवधे दोषोहन्तुर्भवति कश्चन इतिवचनेन दोषाभावप्रनीतेर्हन्तव्याएव दुर्योधनादयआततायिनइत्याशङ्कयाह पापमेवेति एतानाततायिनोपिहत्वा स्थितानस्मान् पापमायेदेवेतिसम्बन्धः अथवा पापमेवाश्रयेत् नकिंचिदन्यत् दृष्टमदृष्टंवा प्रयोजनमित्यर्थः नहिंस्यादिति धर्मशाखादाततायिनं हन्यादित्यर्थशास्य दुर्वलस्वात् तदुक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमितिस्थिति: अारा व्याख्या ननु धार्तराधान् नतां भवतां प्रीत्यभावेपि युष्मान् नतां शर्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान् हन्युरित्यतआह पाप मेवेति कान् हत्वा स्थितानेतानासतायिनोधार्तराष्ट्रान् पूर्वमपि पापिनः साम्पतमपि पापमेवाश्रयेत् नान्यत् किंचित्सुखमित्यर्थः तथा चायस्मान्हत्वैतएव पापिनोभविष्यन्ति नास्माकं कापि क्षतिः पापासम्बन्धादित्याभिप्रायः // 36 / / For Private and Personal use only