________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.७. // 96 // 已经总经外科杂税的免於恐 यन्ते तान्मत्तएव जायमानान् इति अहं कृत्स्नस्य जगतः प्रभवइत्याद्युक्तप्रकारेण विद्धि समस्तानेव अथवा सावकाराजसास्तामसाश्च |भावाः सर्वेपि जडवर्गाव्याख्येयाः विशेषहेत्वभावान् एवकारश्च समस्ताऽवधारणार्थः एवमपि न त्वहं तेषु मत्तोजातत्वेपि तद्वशस्तद्विकाररूषितोरज्जुखण्डइव कल्पितसर्पविकाररूषितोऽहं न भवामि संसारीव ते तु भावामायि रज्ज्वामिव सपादयः कल्पितामधीनसत्तास्फूर्तिकाः मदधीनाइत्यर्थः // 12 // तव परमेश्वरस्य स्वातन्ये नित्यशुद्धबुद्धमुक्तस्त्रभावते च सति कुतोजगतस्त्वदात्मकस्य संसारित्वं एवंविधमत्स्वरूपापरिज्ञानादितिचेत् तदेव कुतइत्यतआह एभिः प्रागुक्तैत्रिभिस्विविधैर्गुणमयैः सत्त्वरजस्तमोगुणविकारैर्भावैसर्वैरपि भवनधर्मभिः सर्वमिदं जगत्प्राणिजातं मोहितं विवेकायोग्यत्वमापादितं सत् एभ्योगुणमयेभ्योभावेभ्यः परं पषां कल्पनाधिष्ठानमत्यन्तविलक्षणमव्ययं सर्वविक्रियाशून्यमप्रपञ्चमानन्दघनमात्मप्रकाशमव्यवहितमाप मां नाभिजानाति ततश्च स्वये चैव सात्त्विकाभावाराजसास्तामसाश्च ये॥ मत्तएवेति तान्विद्धि न त्वहं तेषु ते मयि // 12 // त्रिभिर्गुणमयैर्भावरोभिः सर्वमिदं जगत् // मोहितं नाभिजानाति मामे-% भ्यः परमव्ययम् // 13 // रूपापरिचयात्संसरतीवेत्यहोदौर्भाग्यमविवेकिजनस्येत्यनुक्रोश दर्शयति भगवान् // 13 // यथोकानादिसिद्धमायागुणत्रयबद्धस्य जगतः स्वातन्त्र्याभावेन तत्परिवर्जनासामर्थ्यान्न कदाचिदपि मायाऽतिक्रमः स्याइस्तुविवेकासामर्थ्यहेतोः सदातनत्वादित्याशङ्कय भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायाऽतिक्रमः संभवतीत्याह दैवी एकादेवः सर्वभूतेषु गृहइत्यादिश्रुतिप्रतिपादिते स्वतोद्योतनवति देवे स्वप्रकाशचैतन्यानन्दे निर्विभागे तदाश्रयतया तविषयतया च कल्पिताश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवलेत्युक्तेः एषा साक्षिप्रत्यक्षत्वेनापलापानां हिशब्दामोपादानत्वादापत्तिसिद्धाच गुणमयी सत्त्वरजस्तमोगुणत्रयात्मिका त्रिगुणरज्जुरिवातिदृढत्वेन बन्धनहेतुः मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्यादिनिवाहिका माया तत्त्वप्रनिभासप्रतिबन्धेनातत्त्वप्रतिभास For Private and Personal Use Only