________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्तेन वानप्रस्थादिबु यत्तपः शीतोष्णक्षुत्पिपासादिद्वन्दसहनसामर्थ्य तदहमस्मि तो मयि तपस्विनः प्रोताः विशेषणाभावे विशिष्टाभावात् तपश्चेति चकारेण चित्तैकाग्यमान्तरं जिहोपस्थादिनिग्रहलक्षणं बाधं च सर्व तपः समुच्चीयते // 9 // सर्वाणि भूतानि स्वस्वबीजे प्रोतानि नतु स्वयीति चेनेत्याइ यत्सर्वभूतानां स्थावरजङ्गमानामेकं बीजं कारणं सनातनं नित्यं बीजान्तरानपेक्षं ननु प्रतिव्यक्तिभिन्नमनित्यं वा तदव्याकृताख्यं सर्वबीजं मामेव विद्धि नतु माद्भवं हेपार्थ अतोयुक्तमेकस्मिन्नेव मयि सर्वबीजे प्रोतत्वं सर्वेषामित्यर्थः किञ्च बुद्धिस्तत्त्वातत्त्वविवेकसामर्थ्य तादृशबुद्धिमतामहमस्मि बुद्धिरूपे मयि बुद्धिमन्तः प्रोताः विशेषणाभावे विशिष्टा|भावस्योक्तत्वात् तथा तेजःप्रागल्भ्यं पराभिभवसामर्थ्य परैश्वानभिभाव्यत्वं तेजस्विनां तथाविधप्रागल्भ्यमुक्तानां यत्तदहमस्मि तेजोरूपे माय तेजस्विनः प्रोताइत्यर्थः / / 10 // अप्राप्नोविषयः प्राप्तिकारणाभावपि प्राप्यतामित्याकारश्चित्तवृत्तिविशेषः कामः बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् // बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनाम | हम् // 10 // वलं बलवतामस्मि कामरागविवर्जितम् // धर्माविरुद्धोभूतेषु कामोस्मि || भरतर्षभ // 11 // प्राप्नोविषयः क्षयकारणे सत्याप नक्षीयतामित्येवमाकारश्चित्तवृत्तिविशेषोरञ्जनात्मा रागस्ताभ्यां विशेषेण वर्जितं स|र्वथा तदकारण रजस्तमोविरहितं यत्स्वधर्मानुष्ठानाय देहेन्द्रियादिधारणसामर्थ्य सात्त्विकं बलं बलवतां तादृशसात्विकबलयुक्तानां संसारपराङ्मुखानां तदहमस्मि तद्रूपे मयि बलवन्तः प्रोताहत्यर्थः चशब्दस्तु शम्दाथै भिन्नक्रमः कामरागविवर्जितमेव बल मद्रूपत्वेन ध्येयं नतु संसारिणां कामरागकारणं . बलमित्यर्थः क्रोधार्थोवा रागशब्दोव्याख्येयः धर्मोधर्मशास्त्रं तेनाविरुद्धोऽप्रतिषिद्धोधर्मानुकूलोवा योभूतेषु प्राणिषु कामः शास्त्रानुमतजायापुत्रवित्तादिविषयोभिलाषः सोहमस्मि हेभरतर्षभ शास्त्राविरुद्धकामभूते माय तथाविधकामयुक्तानां भूतानां प्रोतत्वमित्यर्थः // 11 // किमेवं परिगणनेन ये चान्येपि | भावाश्चित्तपरिणामाः सात्त्विकाः शमदमादयः येच राजसाहर्षदादयः ये च तामसाः शोकमोहादयः प्राणिनामविद्याकर्मादिवशाज्जा ※於保总队长长长长长的政治 For Private and Personal Use Only